पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[१ प्रथमाध्याये-- संप्रति स्थानभेदावच्छेदं हित्वा परोवरीयस्वगुणकपरमात्म योद्गीथोपासनं परोबरीयस्त्व. प्राप्तिफलकमानीतवानाम्नाय इति प्रकरणतापमह–अनेकधेति । तर्ह विवक्षितमुपा. सनमेवोच्यता किमास्ववियेत्याशङ्कय ऽऽह--इतिहासस्त्विति । इतिहासः पूर्व वृत्तम् । इतिहस्य भाव ऐह्यम् | समेतानामिति निर्धारणे षष्ठी । ननु सर्वस्मिञ्जगति त्रयाणामेवोद्गीथादिज्ञाने फौशलमिति किं नोच्यते किमिति तेषां मध्ये त्रयाणामेव तन्नैपुण्यं प्रतिज्ञायते तत्रःऽऽह-न हीति। अमुष्य प्रसिद्धस्यापत्यमामुष्यायणो द्वयोरामुष्याणा व्यामुष्यायणः । तव मम चायमिति परिभाष । धर्मतः परिगृहीत इति यावत् । किमर्थो वादारम्भ इत्यत आह--तथा चेति । प्रवृत्ते वादे तस्मिन्विवक्षितेऽर्थे विद्या येषां तैः सह संवाददृष्टमेव फल मित्यर्थः । इतिशब्दस्य प्रयोजनमित्यनेन संबन्धः । वादारम्भस्य दृष्ट- फलत्वे फलितमाह--अत इति । इतिहासस्तु सुखावबोधार्थ इत्युक्तेन समुच्चयार्थश्वकारः । कथं यथोक्तं फलं दृष्टमित्याशङ्कयाऽऽह--दृश्यते हति । शिलकादीनां तद्विद्ययोगे विपरीतधीध्वंसादिकं फलनिति शेषः ॥ १ ॥. तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरु- वाच भगवन्तावग्रे वस्तां ब्राह्मणयोर्वदतोर्वाच श्रोष्यामीति ॥२॥ तथेत्युक्त्वा ते समुपविविशोपविष्टवन्तः किल । तत्र राज्ञः प्रागल्भ्यो- पपत्तेः स ह प्रवाहणो जैवलिरुवाचेतरौ भगवन्तौ पूजावन्ताक्ग्रे पूर्व वदताम् । ब्राह्मणयोरिति लिङ्गादाजाऽसौ युवयोर्ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामि। अर्थ- रहितामित्यपरे वाचमिति विशेषणात् ॥ २ ॥ तत्रेति निर्धारणार्था सप्तमी। राज्ञः प्रागल्भ्योपपत्तेरित्ययुक्तं तस्य राजत्वे हेत्वभावा- दिल्याशङ्कयाऽऽह--ब्राह्मणयोरितीति । पक्षान्तरं विशेषणसामर्थ्यादुत्याप्यागी करोति- अर्थेति ॥ २॥ सह शिलकः शालावत्यश्चैकितायनं दालयम- वाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥३॥ उक्तयोः स है शिलकः शालावत्यश्चकितायनं दाल्भ्यमुवाच-हन्त यद्य. नुमस्यसे त्वा त्वां पृच्छानीत्युक्त इतरः पच्छेति होवाच ॥ ३ ॥ १ ख. अ. यािमु । २ क. छ. मित्येतेन। ३ क. थोतफ। ४ ख. छ. ३. शि सिल° 1 ५ रख, ङ, ज, झ, ञ, स हि सिल । ६४. च. हसि ।