पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ आनन्दगिरिकृतटीकासंबलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- तिनयेदिति होवाच स्वर्ग क्यं लोक ५ सामाशि- संस्थापयामः स्वर्गसश्स्ताव हि सामेति ॥ ५॥ अपां का गतिरित्यसौ लोक इति । अमुष्माल्लोकावृष्टिः संभवति । अमुष्य लोकस्य का गतिरिति पृष्टो दालभ्य उचाच--स्वर्गममुं लोकमतीत्याश्रयान्तरं साम न नयेत्कश्चिदिति होवाचाऽऽह । अतो क्यमपि स्वर्ग लोकं सामाभि- संस्थापयामः । स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः । स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावं हि यस्मात्स्वर्गों वै लोकः साम वेद इति ध्रुतिः ॥ ५॥ - कथमपामसौ लोको गतिस्तत्राऽऽह-अमुष्मादिति । इति पृष्टो दाल्भ्य उवाच हेति संबन्धः । तत्र च्छन्दसि क.लनियमाभावमभिप्रेत्य क्रियापदं व्याकरोति-आहेति । यद्यपि परो नास्याऽऽश्रयान्तरं प्रतिपद्यते तथाऽपि त्वया तद्वाच्यमेवेत्याशङ्कयाऽऽह-- अत इति । अतःशब्दार्थमेव स्फोरयति-स्वर्गेति । तस्मात्स्वर्गलोकप्रतिष्ठं सामेति पूर्वेण संबन्धः । स्वर्गसंस्तावं सामेत्यत्र प्रमाणमाह-स्वर्ग इति ॥ ५ ॥ तर है शिलकः शालावत्यश्चैकितायनं दालाय- मुवाचाप्रतिष्ठितं वै किल ते दााय साम यस्त्वे- तर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥६॥ तमितरः शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच-अप्रतिष्ठितमसंस्थित परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः । वा इत्यागमं स्मारयति किलेति च, दालभ्य ते तव साम । यस्त्वसहिष्णुः सामविदेतर्खेतस्मिन्काले ब्रूयात्कश्चिद्विप- रीतविज्ञानमप्रतिष्ठितं साम प्रतिष्ठितमित्येवंवादापराधिनं मूर्धा शिरस्ते विप- तिष्यति विस्पष्टं पतिष्यतीति । एवमक्तस्यापराधिनस्तथैव तद्विपतेत्र संशयो न त्वहं ब्रबीमीत्यभिप्रायः। १ ख, च..माद्धि लोका। २ च, वाचाऽऽह । स्व। ३ ख. अ. च. हाऽऽह । स्व। ४ ख. घ. ङ, च. न. ड. परं सा५ ख. प. ङ. च. न. ठ. ढ. वाच । अ । ६ ख. प. च. अ. द. ति हि श्रु°। ख. अ. श्रतः॥ ५॥ ८ ख. छ. अ. माद्धीति । ९ख. ज. लि । स्यात्स्व । १० ख. ७. ज. झ. ६ सिल। ११ ख. च. य. इ. ससिल।