पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः ८] छान्दोग्योपनिषत् । ननु मूर्धपाना चेदपराधं कृतवानत्तः परेणानुक्तस्यापि पतेन्मूर्धा न चेद- पराध्युक्तस्यापि नै पतति । अन्यथाऽकृतीभ्यागमः कृतलाशश्च स्याताम् । नैष दोषः । कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तर्देशकालनिमित्तापेक्षत्वात् । तत्रैवं सति मूर्धपातनिमित्तस्याप्यज्ञानस्य पराभिव्याहारनिपिचापेक्षत्वमिति॥६॥ उपदेशपारम्पर्थमागमः । यत्कृतकं तदनित्यमिति स्वर्गस्यान्तवत्स्वान परायणत्वं संभव- तीत्याशयेनाऽऽह -किलेति चेति । यथोक्तं न्यायं सूचयतीति शेषः । न्यायागमाभ्या. मप्रतिष्ठित ते सामेयुपसंहरति-दालभ्येति । स्वर्गप्रतिष्टितं सामेति ज्ञाने दोषं दर्श- यति-यस्विति । असहिष्णुर्मिथ्यावचनमसहमानः सन्निति यावत् । एतस्मिन्काले । मिथ्यावचनावस्थायामित्यर्थः । विपरीतं विज्ञानं यस्य स तथोक्तस्तं प्रतीति विग्रहः । तदेव विपरीतज्ञानमभिनयति अप्रतिष्ठितमिति । सामाप्रतिष्ठितं प्रतिष्टितमिति विपरीतज्ञानं प्रति कश्चिद्वयादिति संवन्धः । तदीयवचनमेव दर्शयति-एवमिति । स तथा कथम्तु मम तु किं स्यादित्याशङ्कयाऽऽह-एवमुक्तस्यति । तथैव विदुषः शापवाक्यानुसारे- णेति यावत् । तदिति शिरोनिरुक्तिः । शापदानाय प्रवृत्तस्त्ययमिति शङ्कां वारयति-न- न्विति । मूर्धपातोपन्यास्रानर्थक्यमाशङ्कते-नन्विति । अपराधाभावेऽपि परोक्तिवशा. मर्धपात दोषमाह - अन्यथेति । सति चापरीधे परोक्तिवैधुर्यान्मूर्धपाताभावे दोषं कथ. यति-कृतेति । अपराधस्य मूर्धपातहेतोरपि सहकार्यपेक्षत्वादभिव्याहरणं नानर्थकमित्यु- त्तरमाह--नैष दोष इति । कर्मणः शुभादेशचरितस्य निमित्तापेक्षया फलहेतुत्वेऽपि सकतेऽपराधिनि कुता व्याहरणापेक्षेत्याशङ्कयाऽऽह-तनेति । तत्र शुभादौ कमण्यत् निमित्तापेक्षया फलप्रदे सतीत्यर्थः । इति पराभिव्याहर समर्थवदिति शेषः ॥६॥ हन्ताहमेतद्भगवतो वेदानीति विद्धाति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमति नये- दिति होवाच प्रतिष्ठां वयं लोक सामाशिसस्था- पयामः प्रतिष्ठासश्स्ताव हि स मेति ॥ ७ ॥ १ क. ग. च. उ. ड च तत्वत । २ ख. ग. ङ, च. ञ. उ.ड, ढ. 'ताय । ३ ध. पाने नि । ४ ख. अ. व्याहरणनि' । ५ ख. छ, ञ, ति विज्ञा°१६ श. म. ट. राधि. निप° | ७ क. इ. पत्तो वे । ग. ज. उ. 'वन्तो ।