पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- एवमुक्तो दाल्भ्य आह- हन्ताहमेतद्भगवतो वेदानि यत्प्रतिष्ठं सामेत्युक्तः प्रत्युवाच शालावत्यो विद्धीति होवाच । अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्येन शालावत्योऽयं लोक इत्ति होवाच । अयं हि लोको याग- दानहोमादिभिरमुं लोकं पुष्यतीति । “ अतः प्रदानं देवा उपजीवन्ति " इति हि श्रुतयः । प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति । अतः साम्नोऽप्ययं लोकः प्रतिष्ठेवेति युक्तम् । अस्य लोकस्य का गतिरित्युक्त आह शालावत्यः । न प्रतिष्ठामिमं लोकमतीत्य नयेत्साम कश्चित् । अतो वयं प्रतिष्ठां लोकं सामाभिसंस्थापयामः । यस्मात्प्रतिष्ठासंस्तावं हि प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः । " इयं वै रथंतरम् ” इति च श्रुतिः ॥ ७ ॥ - हन्तेत्यादि व्याकरोति-एचमिति । कथममुष्य लोकस्यैतल्लोकप्रतिष्टत्वं तदाह-- अयं लोक इति । आदिशब्दः श्राद्धादिसंग्रहार्थः । तत्रैव श्रुति प्रमाणयति-ईतीति । अस्माल्लोकाप्रदीयमानं चरुपुरोडाशाद्यग्निद्वारोपजीवन्ति देवा इति श्रौती प्रसिद्धिरित्यर्थः । भवतु परं लोकं प्रति प्रतिष्ठात्वमस्य लोकस्य तथाऽपि कथमयं लोकः साम्नः प्रतिष्ठेत्याश. याऽऽह--प्रत्यक्षं हीति । पृथिव्याः सर्वाणि भूतानि प्रति प्रतिष्ठात्वे फलितमाह-- अत इति । साम्नोऽपि सर्वान्तर्भावादित्यर्थः । तथाऽपि प्रतिष्ठान्तरं त्वया वान्यमित्याश- याऽऽह-अतो वयमिति । यस्मादेतल्लोकप्रतिष्ठात्वेन संस्तुतं साम तस्मादिदं साम प्रत्येतमेव लोकं प्रतिष्ठां जानीम इति योजना । कथं प्रतिष्ठ स्वेन सामत्वाविशेषात्पृथिया साम संस्तुतमित्याशङ्कयाऽऽह--इयमिति । इयं वै रथंतरशब्दवाच्यस्य सामविशेषस्य पृथिवीत्वेन स्तुतत्वादुद्गीथस्यापि सामत्वाविशेषात्पृथिव्यात्मत्वं संभाव्यत इत्यर्थः ॥ ७ ॥ तह प्रवाहणो जैवलिरुवाचान्तवढे किल ते शालावत्य साम यस्त्वेतर्हि बूयान्मूर्धा ते विप- तिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्ध- गवतो वेदानीति विद्धीति होवाच ॥ ८॥ इति प्रथमाध्याय स्याष्टमः खण्डः ॥८॥ १ क. 6. ड. ढ. 'वत्तो वे । ग. ध. ट. ट. वन्तो ये । २ घ. 'ति ह श्रु । च. ड. 'ति श्र° । ३ क. ग. च. ठ. ड. ह. त्य न न । ४ ठ. मः । हि ह । ५ क. अत इति । ञ. प्रदानमिति । ६ ख. छ. अ. ट. परलो । ७ क. 'थिव्यां साम स्तु । ८ ग. ट. "ध्यात्मसं' । ९ ङ. ड. यतो वे ग. . उ. वन्तो वे"।