पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्ड: ९] छान्दोग्योपनिषत् ।। तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाचान्तव? किल ते शालावत्य सामे. त्यादि पूर्ववत् । ततः शालावत्य आह-हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचेतरोऽनुज्ञात आह ॥ ८ ॥ इति प्रथमाध्यायस्याष्टमः खण्डः ।।८।। हन्ताहमेतदित्यत्रानन्तं सामैतदित्युच्यते ।। ८ ।। इति प्रथमाध्यायस्याष्टमः खण्डः ॥ ८॥ (अथ प्रथमाध्यायस्य नवमः स० अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्प- द्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैश्यो ज्याया• नाकाशः परायणम् ॥ १ ॥ ___ अस्य लोकस्य का गतिरिति । आकाश इति होवाच प्रवाहणः । आकाश इति च पर आत्माऽऽकाशो वै नामेति श्रुतेः । तस्य हि कर्म सर्वभूतोत्पादक- त्वम । तस्मिन्नेव हि भूतमलयः । तत्तेजोऽसजत । तेजः परस्यां देवतायामिति हि वक्ष्यति । सवोणि ह वा इमानि भतानि स्थावरजङ्गन्मान्याकाशादेव समु. त्पद्यन्ते तेजोबन्नादिक्रमेण सामर्थ्यात। आकाशं प्रत्यस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यो ज्यायान्म- हत्तरोऽतः स सर्वेषां भूतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेषि- त्यर्थः ॥ १॥ - आकाशशब्दस्य भूताकाशविषयत्वं व्यावल परमात्मविषयत्वं वाक शेषवशादर्श- यति-आकाश इति चेति । फिंच परस्याऽऽत्मनः सर्वभूतोत्पादकत्वं कर्मेति वेदान्त- मोटा तदिहाऽऽकाशे श्रुतं तथा च परमात्मैवाऽऽकाशशब्द इत्याह-तस्य हीति । किंच परस्मिन्नेव भूतानां प्रलयः स चात्राऽऽकाशे श्रुतरतस्मात्पर एवाऽऽत्माऽऽकाश इत्याह तस्मिन्नेवेति । सर्वोत्पादकत्वं परस्य कर्मेत्यत्र मानमाह--तत्तेजोऽसज- तेति । परस्मिन्नेव लयो भूतानामित्यत्रापि मानमाह-तेज इति । भवतु परस्याऽऽ. १ क. ख. च. ङ. वत्तो वे । ग. घ. ठ. तो वे । ५ क. ग. ट. ट. 'त: सर्वे । ३ च. छ. उ. ति । किं ।