पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० आनन्दगिरिकृतीकासंवलितांकरभाष्यसमेता-[१ प्रथमाध्याये- स्मनः सर्वोत्पादकावं कर्म तथाऽपि किमायातमाकाशस्येति चेत्तत्राऽऽह-सर्वाणीति । कथमयं कमो लभ्यते । अविशेषेण हि ततः सर्वोत्पत्तिः श्रुतेत्याशङ्कयाऽऽहः--साम- ादिति । आत्मन आकाश: संभूतस्तत्तेजो सृजतेत्यादिश्रुतिबलादित्यर्थः । तथाऽपि कथमाकाशे सर्वभूतलयस्तत्राऽऽह-आकाशं प्रतीति । विपर्ययेण तु क्रमोऽत इति न्यायेनाऽऽह-विपरीतेति । आकाशस्य घरमात्मत्वे हेत्वन्तरमाह-यस्मादिति । परायण वमपि तत्रैव लिङ्गमित्याह-अत इति ॥ १॥ स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एत- देवं विद्वान्परोबरीया समुद्गीथमुपास्ते ॥ २॥ यस्मात्परं परं वरीयो वरीयसोऽप्येष वरः परश्च वरीयांश्च परोवरीयानुगीयः परमात्मा संपन्न इत्यर्थः । अत एव स एषोऽनन्तोऽविद्यमानान्तस्तमैतं परो- वरीयांसं परमात्मभूतमनन्तमेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते । तस्यैतत्फल- माह-परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं हास्य विदुषो भवति दृष्टं फलमदृष्टं च परोवरीयस उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्ताल्लोकाञ्जयति य एतदेवं विद्वानुगीथमुपास्ते ॥ २ ॥ आकाशस्तलिङ्गादिति न्यायनाऽऽकाशस्य परमात्मत्वमुक्तमिदानी तस्योगीथे संपादि- तस्य परोवरीयस्त्वं गुणमुपदिशति--यस्मादिति । उत्तरमुत्तरं श्रेष्ठादपि श्रेष्टोऽयमित्ये- लत् । साममात्रस्य कथमयं गुणः स्यादित्याशङ्कयाऽऽह-परमात्मेति । आकाशस्य परमात्मत्वे लिङ्गान्तरमाह--अत एवेति । परमात्मसंपन्नत्वादिति. यावत् । आकाशो हि प्रकृतोद्गीथे संपादितोऽनन्तः श्रुतः । न चाऽऽनत्यं ब्रह्मणोऽन्यत्र युक्तम् । सत्यं ज्ञानम- नन्तं ब्रह्मेति श्रुतेः । तस्मादाकाशो ब्रह्मेत्यर्थः । संप्रत्याकाशशब्दितस्य परस्योद्गीथे संपा- दितस्य पसेवरीयरत्वगुणविशिष्टस्योपास्ति विदधाति-तमेतमिति । परं परमुपर्युपरीति यावत् । तस्मादेवमुपासीतेति भावः ॥२॥ ते५ हैतमतिधन्वा शौनक उदरशाण्डिल्यायो- क्योवाच यावत्त एनं प्रजायामुद्गीथं वेदि- १ ख. छ. अ. क्रम उपल° । २ झ. 'तमेवं । ३ क. ग. ऊ. ट. 'मात्मसं° । ४. क.

  • . च...द. ट.. ड. द. रवि