पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः ९] छान्दोग्योपनिषत् । ध्यन्ते परोवरीयो हैयस्तावदस्मिल्लोके जीवन भविष्यति ।। ३ ॥ किं च तमेतमुद्गीथं विद्वानतिधन्वा नामतः शुनकस्यापत्यं शौनक उदर. शाण्डिल्याय शिष्यायैतमुद्गीथदर्शनमुक्त्वोवाच । यावत्ते तव प्रजायां प्रजासं ततावित्यर्थः। एनमद्गीथं त्वत्संततिजा वदिष्यन्ते ज्ञास्यन्ति तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्य उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति ॥३॥ विधिशेषमर्थवाद दर्शयति-किंचेति । इतश्चात्र विधिरस्तीत्येतत्तेभ्यस्तत्संततिजा ये यथोक्तोद्गीथे वेदितारस्तदर्थमित्यर्थः ॥ ३ ॥ तथाऽमुष्मिाल्लेके लोक इति स य एतदेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिल्लोके जीवनं भवति तथाऽ- मष्मिल्लोके लोक इति लोके लोक इति ॥४॥ इति प्रथमाध्यायस्य नवमः खण्डः ॥ ९ ॥ तथाऽदृष्टेऽपि परलोकेऽमुष्मिन्परोवरीयाल्लोको भविष्यतीत्युक्तवाशाण्डिल्या. यातिधन्वा शौनकः । स्यादेतत्फलं पूर्वेषां महाभाग्यानी नैदंयुगीनानामित्याश- ङ्कानिवृत्तय आह–स यः कश्चिदेतदेवं विद्वानद्गीथमेत पास्ते तस्याप्येवमेक परोवरीय एव हास्यास्मिल्लोके जीवनं भवति तथाऽमुष्मिलोके लोक इति लोके लोक इति ॥४॥ इति प्रथमाध्यायस्य नवमः खण्डः ॥९॥ तथा दृष्टविशिष्टतरजीवनवदित्यर्थः । अदृष्टेऽपीति च्छेदः । स य एतमित्याद्यत्तरं वाक्यं शकोत्तरत्वेनोत्थाप्य व्याचष्टे-स्यादित्यादिना । अस्मिन्युगे भवन्तीत्यैदयगीनास्तेषा. मैदंयुगीनानां लोकः परोवरीयानिति शेषः । पुनरुक्तिरुद्गीथोपास्तिसमाप्त्यर्था ॥ ४॥ इति प्रथमाध्यायस्य नवमः खण्डः ॥९॥ १ . °त्तरं वि । २ क, ग. ह. ज. झ. ट. ठ. 'तमेवं । ३ ख. अ. लोकलों । ४ ठ, 'ना नेदानीतना । ५ क. ग. ङ. ति ॥ ९ ॥ . य. 'ति लोकलो ।