पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलि तशांकरभाष्यसमेता-[१प्रथमाध्याये- - (अथ प्रथमाध्यायस्य दशमः खण्डः । ) मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिह चा- कायण इायग्रामे प्रदाणक उवास ॥ १ ॥ उद्गीथोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं कर्त (वक्तव्य- मितीदमारभ्यते । आख्यायिका तु सुखावबोधार्था । मटचीहतेषु मटच्योऽशन- यस्ताभिहतेषु नाशितेषु कुरुषु कुरुंसस्यवित्यर्थः । ततो दुर्भिक्ष जात आटि- क्याऽनुपजातपयोधरादिस्त्रीव्यञ्जनया सह जाययोपस्तिहे नामतश्चक्रस्यापर्यं चाक्रायणः । इभो हस्ती तमहतीतीभ्य ईश्वरो हस्त्यारोहो वा तस्य ग्राम ईभ्य- ग्रामस्तस्मिन्प्रद्राणकोऽन्नालाभात् । द्रा कुत्सायां गतौ । कुत्सितां गतिं गतोऽ. न्त्यावस्थां प्राप्त इत्यर्थः । उवासोषितवान्कस्यचिद्गृहमाश्रित्य ॥१॥ अथोगीथाक्षरोपासनस्यानेकधोक्तत्वाद्वक्तव्यानवशेषात्प्रपाठकपरिसमातिरेव युक्तेत्याश. याऽऽह-उद्गीथेति । इदमा खण्डान्तरं परामृश्यते । प्रस्तावाद्युपासनं विवाक्षतं चेत्तदे- वोच्यतां किमनया कथयेत्याशङ्कयाऽऽह-आख्यायिका स्विति । मटच्यो मर्दनहेत- वोऽशनयः पाषाणवृष्टयो वा । ततः सस्यनाशादित्येतत् । सर्वतः स्वैरसंचारेऽपि न व्यभि- चारशङ्केति दर्शयितुमाटिक्येति विशेषणम् । प्रद्राणकपदस्य क्रियापदेन संबन्धः । कुत्सित- गतिप्राप्तौ हेतुरन्नालाभादिति । प्रद्राणकशब्दार्थ धातूपन्यासद्वारा कथयति--द्रा कुत्सा- यामिति ॥१॥ स हेयं कुल्माषान्खादन्तं बिभिक्षे त होवाच । नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ २ ॥ सोऽन्नार्थमटन्निभ्यं कल्माषान्कुत्सितान्माषान्वादन्तं भक्षयन्तं यदृच्छयो- पलभ्य विभिक्षे याचितवान् । तमुपस्ति होवाचेभ्यः। नेतोऽस्मान्मया भक्ष्यमा- णादुच्छिष्टराशेः कुलमापा अन्ये न विद्यन्ते । यच्च ये राशौ मे ममोपनिहिताः प्रक्षिप्ता इमे भाजने किं करोमीत्युक्तः प्रत्युवाचौपस्तिः ॥ २ ॥ १ ग. ङ. ज. ट. 'टिक्यः स । २ व. ङ, च. ठ. ड. ढ. का सु। ३ ड. च्यो विद्यु:- खोऽश । ४ ८. प्रदेशस । ५ ङ. इ. ढ. 'दिव्य' । ६ ख. ङ. उ. इतीभ्य ।