पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये-- त्यादिन्यायविरोधादित्याह-ज्ञानेति । तस्मिन्नभिप्राये लिङ्गं दर्शयति-प्रद्राणकेति । चाक्रायणे प्रद्राणकशब्दप्रयोगात्परमापदम पन्नः सन्कुलमानानुच्छिष्टान्भक्षितबानिति प्रति- भाति । तथा च ज्ञानिनो यथेष्टाचारे प्रमाणाभावादनेकप्रमाणविरोधाच नासावत्र विवक्षित इत्यर्थः ।। ४ ।। स ह खादित्वाऽतिशेषाआयाया आजहार साऽय एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ ५॥ तांश्च स खादित्वाऽतिशेषानतिशिष्टाञ्जायायै कारुण्यादाजहार । साऽऽटि. क्यग्र एव कुल्माषप्राप्तः स भक्षा शोभनभिक्षा लब्धान्नेत्येतद्वभूव संवत्ता । तथाऽपि स्त्रीस्वाभाव्याद नवज्ञाय तान्कल्माषान्पत्युहस्तात्पतिगह्य निदधौ निक्षिप्तवती ॥ ५॥ स्त्रीस्वाभाव्यं पत्युराज्ञाकरणम् ॥ ५ ॥ सह प्रातः संजिहान उयाच यनान्नस्य लोमहि लोमहि धनमाना राजाऽसौ यक्ष्यते स मा सर्वैरा- विजयवृणीतेति ॥ ६ ॥ स तस्याः कर्म जानन्मातरुपःकाले संजिहानः शयनं निद्रां वा परित्यजत्रु चाच पत्न्याः शृण्वत्या यद्यदि बतेति खिद्यमानोऽन्नस्य स्तोकं लभेमहि तद्भु क्त्वाऽन्नं समर्थो गत्वा लभेमहि धनमात्र धनस्याल्पम् । ततोऽस्माकं जीवनं भविष्यतीति । धनलाभे च कारणमाह-राजाऽसौ नातिदूरे स्थाने यक्ष्यते । यजमानत्वात्तस्याऽऽत्मनेपदम् । स च राजा मा मां पात्रमुपलभ्य सर्वैरात्विज्यै- ऋत्विकमभिर्ऋत्विकर्मप्रयोजनायेत्यर्थो वृणीतेति ॥ ६॥ तस्याः कर्म कुल्माषाणां परिरक्षणम् । यक्ष्यतीति कस्मान्नोक्तं तत्राऽऽह --यजमान- त्वादिति । राज्ञो यजमानत्वाद्यागफलस्याऽऽत्मगामित्वाद्यक्ष्यत इत्यात्मनेपदं प्रक्तमित्यर्थः । अन्येषामुपद्रष्टुवसंभवे कुतस्त्वामेव राजा मानयिष्यत त्याशङ्कयाऽऽह-स चेति ॥६॥ तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वाऽमुं यज्ञं विततमेयाय ॥ ७ ॥ १ क. टाचरणे प्र । २ ख. ङ, न. ड. द. प्यति ! ३ क. ग. ह. 'दूरस्था" ।