पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- द्वारा स्फोरयति- अनधिकारे चेति । तस्यैव समुच्चयफलत्वादित्यर्थः । ननु दक्षिणमा- भस्य वापीकूपतटाकादिस्मार्तकर्मप्रयुक्त वाद्वैदिके कर्मणि विद्वानेवाधिक्रियते नेत्याह-न चेति । यज्ञेन दानेन लोकाञ्जयन्तीति वैदिककर्मनिष्ठानामज्ञानामेव दक्षिणमार्गश्रवणादिति हेतुमाह-यज्ञेनेति । इतश्चाविदुषां विद्वत्समीपे कर्माधिकारो नास्तीत्याह-तथोक्तस्यति । देवताविज्ञानशून्यस्य ते मूर्धा विपतिष्यतीत्यनेन प्रकारेण मयोक्तस्य मूर्धा व्यपतिष्यदिति विशेषश्रवणाद्विद्वत्समीपे तदनुज्ञामन्तरेण कर्म कुर्वतोऽपराधित्वात्तस्य कर्मण्यनधिकार एवे. सर्थः । विद्वदसमीपे पुनरविदुषोऽपि कर्मण्यधिकारोऽस्तीत्याह-न सर्वश्रेति । अग्निहो. त्रादौ श्रौते कर्मण स्मार्तेषु च वापीकृपतटाकादिकर्मस्वध्ययनजपादिषु च विद्वत्संनिधिम. म्तरेणापि सर्वस्मिन्काले कर्ममात्रविदो नाधिकारोऽस्तीत्यशक्यं वक्तुमित्यर्थः । तत्र हेतुमाह- अनुज्ञेति । भगवन्तं वा अहं विविदिषाणीत्यादिना राज्ञा स्वकीयकर्मनिर्वर्तने प्रार्थनौदर्श. नादेत एव मया समतिसष्टाः स्तुवतामिति चानुज्ञोपलम्भादस्त्येवाविदुषामपि कर्मण्यधि. कार इत्यर्थः । उक्तमर्थमुपसंहरति-कर्ममात्रेति । विद्वत्समीपे तदनुज्ञामलम्ध्वा नास्ति कर्मानुष्ठानमित्येतन्निगमथितुमितिशब्दः । मूर्धा ते विपतिष्यतीत्येतदन्तं प्रस्तोतविपर्य बाक्यं व्याख्यातमित्यनुवदति-मूर्धेति ॥ ९॥ एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥१०॥ एवमेव प्रतिहारमुवाच प्रतिहर्तर्या देवता प्रतिहार- मन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मर्धा ते विप- तिष्यतीति ते ह समारतास्तूष्णीमासांचकिरे॥११॥ इति प्रथमाध्यायस्य दशमः खण्डः ॥१०॥ एवमेवोद्गातारं प्रतिहारमुवाचेत्यादि समानमन्यत् । ते मस्तोत्रादः १. अ. तडागादि । २ क. 'दिकक' । ३ ख. छ औतक' । ४ क. अ. "तना. नादि । ५ छ, 'नाई।