पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्ड: ११] छान्दोग्योपनिषत् । यः कर्मभ्यः समारता उपरताः सन्तो मूर्धपातभयातूष्णीमासांचहिरेऽन्यच्चा कुर्वन्तः । अर्थित्वात् ॥ १० ॥ ११ ॥ इति प्रथमाध्यायस्य दशमः खण्डः ॥१०॥ तृष्णीमित्यस्यार्थमाह--अन्यच्चति । तत्र हेतुमाह--अथित्वादिति । तत्तदेवता. विषयविज्ञानार्थित्वेन कर्मान्तरमकुर्वन्तश्चाक्रायणाभिमुखाः स्थिता इत्यर्थः ॥१०॥११॥ इति प्रथमाध्यायस्य दशमः खण्डः ॥ १० ॥ (भप प्रथमाध्यायस्यैकादशः खण्डः) अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १॥ अथानन्तरं हैनमुषस्ति यजमानो राजोवाच । भगवन्तं वै पूजावन्तमई विविदिषाणि वेदितुमिच्छामीत्युक्त उपस्तिरस्मि चाक्रायणस्तवापि श्रोत्रपथमा- गतो यदीति होवाचोक्तवान् ॥१॥ भय हैनमित्यादि व्याकरोति-अथेति । प्रस्तोतृप्रभृतीनां तुष्णीभावादिति शेषः ॥१॥ स होवाच भगवन्तं वा अहमेभिः सर्वैरावि- ज्यैः पषिषं भगवतो वा अहमवित्त्याऽन्या- नवृषि ॥२॥ स ह यजमान उवाच सत्यमेवमहं भगवन्तं बहुगुणमश्रीषं सर्वेश्च ऋत्वि- कर्मभिरात्विज्यैः पर्येषिषं पर्येपणं कृतवानस्मि । अविष्य भगवतो वा अहम. वित्त्याऽलाभेनान्यानिमानवृषि व्रतवानस्मि ॥२॥ ___ चाक्रायणस्य वचनमङ्गी करोति--सत्यामिति । अङ्गीकारमेव स्फोरयति--एव. मिति । आविज्यरित्यस्य व्याख्यानमृस्विकर्मभिरिति तदर्थमिति यावत् । यदि मामावि. ज्यार्थमनुसंहितवानसि किमितीमानन्यान्वृतवानित्याशङ्कयाऽह--अन्विष्यति ॥२॥ क. घ. ह. भ. ह. °न्तं पू । २ ख. घ. इ. वन्तं वा अहं । ३ ख. अ. नरम्य- बाप्यन्ति।