पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- द्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यप- तिष्यत्तथोक्तस्य मयेति ॥ ७॥ । पृष्ट आदित्य इति होवाच । सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैरूज़ सन्तं गायन्ति शब्दयन्ति स्तुवन्तीत्यभिप्रायः । उच्छब्दसामान्यात्पशन्दसामा- न्यादिव प्राणोऽतः सैषा देवतेत्यादि पूर्ववत् ॥ ७ ॥ यथा प्रशब्दसामान्यात्प्राणः प्रस्तावदेवतेत्युक्तं तथाऽऽदित्योद्गीथयोरुन्छब्दसामान्यादुद्गीथ० देवताऽऽदित्य इलाह-उच्छब्देति । उक्तसामान्यपरामर्शार्योऽतःशब्दः ॥ ७॥ अथ हैनं प्रतिहतॊपससाद प्रतिहर्तर्या देवता प्रतिहा- रमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देव- . तेति ॥ ८॥ एवमेवाथ हैन मतिहापससाद कतमा सा देवता प्रतिहारमन्वा- यत्तेति ॥ ८॥ एवमेव प्रस्तोतृवद्गातृवच्चेयर्थः । ऋत्विग्भ्यां प्रस्तावोद्गीथदेवतयोविज्ञानानन्तर्यमथ. शब्दार्थः ॥ ८॥ अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्न- मेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहार मन्वायत्ता तां चदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यप- तिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ ९ ॥ इति प्रथमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ पृष्टोऽनमिति होवाच । सर्वाणि ह वा इमानि भूतान्यन्नमेवाऽऽ. स्मानं प्रति सर्वतः पतिहरमाणानि जीवन्ति । सैषा देवता प्रतिशब्द- सामान्यालतिहारभक्तिमनुगता । समानमन्यत्तथोक्तस्य मयेति । प्रस्ता. १ ख. ग. घ. ङ. च. त्र. ठ. ड, वाणीमा ।