पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः १२] छान्दोग्योपनिषत् । बौद्गीथप्रतिहारभक्तीः प्राणादित्यानदृष्टयोपासीतति समुदायार्थः । प्राणायापत्तिः कर्मसमृद्धिवो फलमिति ॥९॥ इति प्रथमाध्यायस्यैकादशः खण्डः ॥११॥ कथमन्नस्य प्रतिहारत्वं तदाह-सर्वाणीति । तां चेदविद्वानित्याद्यन्यदित्युच्यते । यथो. कस्य मयेत्येतदन्तमिति शेषः । कीदृगुपासनमस्मिन्प्रकरणे विवक्षितमित्याशङ्कयाऽऽह- प्रस्तावेति । उपास्तित्रयस्य फलं दर्शयति-प्राणादीति ॥ ९॥ इति प्रथमाध्यायस्यैकादशः खण्डः ॥ ११॥ - - - (अथ प्रथमाध्यायस्य द्वादशः खण्डः।) अथातः शौव उद्गीथस्तद्ध बको दाल्ल्यो ग्लावो वा मैत्रेयः स्वाध्यायमद्वाज ॥ १॥ अतीते खण्डेऽन्नौप्राप्तिनिमित्ता कष्टावस्थोक्तोच्छिष्टपर्युपितभक्षणलक्षणा सा मा भूदित्यनलाभायाथानन्तरं शौचः श्वभिदृष्ट उद्गीथ उद्गानं सामातः) प्रस्तूयते । तत्तत्रै ह किल बको नामतो मूल्भस्यापत्यं दाल्भ्यो ग्लावो वा नामतो मित्रायाथापत्यं मैत्रेयः । वाशब्दश्चार्थे । द्वयामुध्यायणो ह्यसौ । वस्तुवि- पये क्रियास्विव विकल्यानुपपत्तेः । द्विनामा द्विगोत्र इत्यादि हि स्मृतिः। दृश्यते चोभयतः पिण्डभाक्त्वम् । उद्गीथे वद्धचित्तत्वाषावनादराद्वा वाशब्दः स्वाध्यायार्थः । स्वाध्यायं कर्तुं प्रामादहिरुद्ववाजोद्तवान्विविक्तदेशस्थोदका भ्यांशम् । उद्ववाज प्रतिपालयांचकारेति चैकवचनाल्लिङ्गादेकोऽसावृषिः । वोद्गीयकालप्रतिपालनादृपेः स्वाध्यायकरणमनकामनयेति लक्ष्यत इत्यभि- मायतः ॥ १॥ पूर्वोत्तरखण्डयोः संगति दर्शयन्नु गासनान्तरं प्रस्तौति-अतीत इति । अन्नलाभस्या- १ क. ट. नानाप्ति । ग. नालाभनि । २ क. च. "च्छिष्ट । ३ क. ग. घ. ङ. ट. द. "त्रि कि । ४ ग. च. अ. द. दल्भ्यस्या । ५ ख. ञ. वो ना । ६ ख. च. अ. द. दि स्म । ७ ख. च. ञ. ट. रमतिर्हि । दृ । ८ ख. ग. घ. च. अ. ट. ड. यार्थम् । स्वा । ९ क. ट. ठ. °भ्यासम् । १० स. 6. छ. ह. द.क्ष्यतेऽभि । ११ ख. घ. छ. छ, ठ. द. पायोऽतः। क. पायोऽन्तःस्त्रा।