पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः १२] छान्दोग्योपनिषत् । यपरितोषिताः सन्तोऽनुगृह्णीयुरेनं स्वरूपमादायोति युक्तमेवं प्रतिपत्तुम् । अश नायाम वै बुभुक्षिताः स्मो चा इति ॥ २ ॥ ____तरमा इत्यादि व्याचष्टे-स्वाध्यायेनेति । क्षुल्लकाः क्षुद्रकाः शिशव इति यावत् । श्वेतः श्वा कश्चिदृषिदेवता वा । अन्ये च श्वानो देवता ऋषयो वेत्युक्तम् । संप्रति विव- क्षित पक्षमाह-मुख्येति । तमुचुरिति संबन्धः । तानेव विशिनष्टि-प्राणमन्विति । मुख्य प्राणसहितवागादिग्रहे हेतुमाह-स्वाध्यायति । अन्यथा चाक्यमनिर्धारितार्थ स्यादिति भावः । किमित्यन्नं भवद्भयो मया संपाद्यते न हि भवतामभोक्तृणां तेन कृत्य- मस्तीत्याशङ्कय त्वनिष्ठचेतनद्वारेणास्माकमपि भोगसिद्धर्भवमित्याह--अशनायाम वा इत्यादिना ॥२॥ तान्होबाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्ल्यो ग्लायो वा मैत्रेयः प्रतिपालयांच- कार ॥ ३॥ एवमुक्ते श्वा श्वेत उवाच तान्क्षुल्लकॉन्शुन इहैवास्मिन्नेव देशे मा मो प्रातः । भातःकाल उपसमीयातेति । दैर्घ्य छान्दसं समीयातेति प्रमादपागे बा । प्रातःकालकरणं तत्काल एव कर्तव्यार्थम् । अन्नदस्य वा सवितुरपरालेऽमा- भिमुख्यात् । तत्तत्रैव ह बको दालभ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयां- चकार प्रतीक्षणं कृतवानित्यर्थः ॥३॥ किमिति प्रातःकालप्रतीक्षणं कृतं तत्राऽऽह–प्रावरिति । उद्गानस्येति शेषः । प्रातः- कालप्रतीक्षणकरणे कारणान्तरमाह---अन्नदस्योति । तस्य वृष्टिद्वाराऽन्नदत्वं द्रष्टव्यम् । तद्धेत्यादि व्याचष्टे-तत्तत्रेति । अरुलेरनकामत्वमितोऽवगतम् ॥ ३ ॥ ते ह यथैवेदं बहिषवमानेन स्तोष्यमाणाः स.। रब्धाः सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य हि चकः ॥ ४ ॥ ते श्वानस्तत्रैवाऽऽगम्य ऋषेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणा उद्धातपुरुषाः संरब्धाः संलग्ना अन्योन्यमेव मुखेनान्योन्यस्य १ . ङ. च. ठ. ड. द. °भ यु' । २ छ. रितं स्या" । ३ क. ग. च. ट, मुक्तवन्तः । स श्वा 1 ङ. मुतवन्तः । श्वा । ड. मुक्तवतः श्वा । ४ ख, ग, घ. ङ, च. ट न. ड... तस्तान्क्षु । ५ ट. कानवाच शुन। ६ क. च. गत्य का । ७ क. ख. ग. व. .. ट. इ. व सन्ति । एवं मु