पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याये-- पुच्छं गृहीत्वाऽऽससूपुरासृप्तवन्तः परिभ्रमणं कृतवन्त इत्यर्थः । त एवं संसृप्य समुपविश्योपविष्टाः सन्तो हिं चक्रुहिकारं कृतवन्तः ।। ४ ॥ ते हेत्यादि व्याकरोति--ते श्वान इति । समक्षमाससृपुरिति संबन्धः । उद्गातृपु- रुषा इत्यध्वर्युप्रमुखा यजमानपर्यन्ता गृह्यन्ते । अन्योन्यं संलग्नाः सर्पन्तीति शेषः ॥ ४॥ ओ३मदामों पिबा३३ देवो वरुणः प्रजापतिः सविता२ऽन्नमिहा२ऽऽहरदन्नपते ३ऽन्नमिहा२हरा-. २ऽऽहरोइमिति ॥ ५॥ इति प्रथमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ आमदामों पिबामों देवो द्योतनात् । वरुणो वर्षणाज्जगतः । प्रजापतिः पालनात्मजानाम् । सविता प्रसवितत्वात्सर्वस्याऽऽदित्य उच्यते । एतैः पर्यायः स एवंभूत आदित्योऽन्नमस्मभ्यमिहाऽऽहरदाहरात्विति । त एवं हिं कृत्वा पुनरप्यूचुः स त्वं हेऽन्नपते । स हि सर्वस्यान्नस्य प्रसक्तृित्वात्पतिः । न हि तत्पाकेन विना प्रभूतमन्नमणुमात्रमपि जायते प्राणिनाम् । अतोऽन्नपतिः । द्वेऽन्नपतेऽन्नमस्मभ्यमिहाऽऽहराऽऽइरेति । अभ्यास आदरार्थः । मिति ।। ५ ।। इति प्रथमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ हिंकारस्वरूपमाह-ओमित्यादिना । त्रिवारमोकारो गानार्थमुंच रतः । अदामा- शनं करवाम | पिबाम पानं करवामेत्येतत् । इतिशब्दो हिंकारसमाप्त्यर्थः । अन्नप्रसवि. तत्वमादित्यस्य साधयति-न हीति । इति प्रकृतदेशोक्तिः । ॐकारः सवितप्रार्थना- मन्त्रसमाप्त्यर्थः । भक्तिविषयोपास्तिसमाप्यमितिपदम् ॥ ५॥ इति प्रथमाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ (अथ समाध्यायस्य त्रयोदशः खण्डः ।) भक्तिविषयोपासनं सामावयवसंबद्धमित्यतः सामावयवान्तरस्तोभाक्ष. १ ग. प. अ. पु। २ . च. ढ. वरणा । ३ अ. ड. सर्वान' । ४ प. ङ. ड. "रार्थमे मि । ५ क. 'मुचारि' । ६ व. छ ञ. त्यर्थ चेति । ७ क. द, बन्यमि'।