पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५ त्रयोदशः खण्डः १३] छान्दोग्योपनिषत् । रविषयाण्युपासनान्तराणि संहतान्युपदिश्यन्तेऽनन्तरं सामावयवसंवद्धत्वा- विशे पात्- अयं वाव लोको हाउकारो वायुइकारश्चन्द्रमा अथकारः । आत्मेहकारोऽमिरीकारः ॥ ३ ॥ .: अयं वावायमेव लोको हाउकारः स्तोभो रथंतरे सान्नि प्रसिद्धः--इयं वी चै रथंतरमिति । अस्मात्संबन्धसामान्याद्धाउकारस्योभोऽयं लोक इत्येवमुपा- सीत । वायहाइकारः । वामदेव्ये सावनि हाइकारः प्रसिद्धः । वाय्वसंबन्धश्च वामदेव्यस्य साम्नो योनिरिति । अस्मात्सामान्याद्धाइकार वायुदृष्टयोपासीत । चन्द्रमा अथकारः । चन्द्रदृष्टाऽथकारमुपासीत । अन्न हीदं स्थितम् । अनात्माँ चन्द्रः । थकाराकारसामान्याच्च । आत्मेहकारः । इति स्तोमः प्रत्यक्षो ह्यात्मेति व्यपदिश्यते । इहेति च स्तोभः । तत्सामान्यात् । अग्निरीकारः । इनिधनानि चाऽऽग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात् ॥ ३१ ॥ ननु भक्तिसंबन्धानामुपासनानां नीतत्वासमस्तस्येत्यादिवक्तव्ये किमनन्तरखण्डेनेत्याश. याऽऽह-भक्तीति । इत्यतोऽस्मात्प्रसङ्गादिति यावत् । ऋगक्षराणि गीयन्ते तद्वयति. रिक्तानि वान्यशून्यानि गतिसिद्धयर्थानि स्तोभाक्ष राणि परिभाष्यन्ते तानि च कर्मापूर्व- निर्वृत्तिद्वारेण फलवत्त्वादुपास्यानि तदुपास्तिविधि परमुत्तरं वाक्यमित्यर्थः । वक्ष्यमाणोपास- नानां प्रत्येकं स्वातन्त्र्यं नासीत्याह-संहतानीति । पामनन्तरमुपदेशे हेतुमाह-सामा- वयवेति । न चैविधस्तोमो नास्तीति वाच्या मित्याह- रथंतर इति । तथापि कथं पृथिवीदृष्टया यथोक्तस्ते भस्योपास्यत्वं तदाह -इयमिति । इयं वै रथंतरमित्यत्र पृथिव्या रथंतरत्वं श्रुतं प्रस्तुतश्च स्तोमो रथंतरेऽस्ती त्युक्तं तथा च यथोक्तात्संबन्धरूपात्सादृश्या- थिवीदृष्ट्या हाउकार उपास्य इत्यर्थः । कथं पुनर्वायुदृष्टया है। कारस्योपास्यत्वं तत्राऽऽह- -वाय्वप्संबन्धश्चेति । होइकारो वामदेव्ये सान्नि प्रसिद्धः । तस्य च वायोरपां च . संबन्धो योनिथुनेन्छावतीनामपां वायुः पृष्टेऽत्यवर्तत ततो वामदेव्यं सामभिवदिति श्रुतेः । तस्माद्यथोक्ताद्वामदेव्यसामसंबन्वसामान्याद्वायुदृष्ट्या होइकारमुपासीतेत्यर्थः । कथमथकारस्य १ घ. ड. द. बन्धत्वा । २ ख. अ. ठ. हाधिका । ३ ख. ङ. अ. हायिका। .४ ख. ङ. ञ, ड. ढ. हाथिका । ५ ङ. स्मासंबन्धाद्धा । ६ ढ.दं सर्व स्थि। ७ ख.व. ङ. च. अ. द. त्मा च च । ८ च. ह. ढ. स्तोमोऽप। ९ ख... 'नि धनानि चा। १० क. °नां ज्ञात । ग. टं, 'नां जात । ११ क. बाऽऽह । १२ ख. . हायिका। १३ ख. ग. न. हाथिका । ४ ख. अ. °माक्षरव । १५ ख. स. हायिका।