पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ आनन्दगिरिकृतीकासवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- चन्द्रदृष्टयोपासनं तत्राऽऽह-अन्ने होति । तथा च थकारसामान्याद्यर्थोक्तोपास्तिसि. द्धिरिति शेषः । थकास्वदकारसामान्याच्च चन्द्रदृष्टयाऽथकारमुपासीतत्याह-थकारेति। अथकारे तावद्ध्यक्तोऽकारोऽनात्मनि चन्द्रमस्वषिः सोऽस्तीति तद्युक्तं यथोक्तमुपासनमि- त्यर्थः । प्रथममप्रत्यक्षः पश्चात्प्रत्यक्षीभवन्निति शेषः । तत्सामान्यमिहेति व्यपदिश्यमानत्वं तस्मादात्मदृष्टिरिहेति स्तोभे कर्तव्येत्याह-तत्सामान्यादिति। अग्निदृष्टिरीकाराख्ये स्तोभा- क्षरे कर्तव्येत्यत्र हेतुमाह-ईनिधनानीति । ईकासे निधीयते येषु सामसु तान्यानेयानि प्रसिद्धानि । तथा च तेष्वगिरीकारश्चेत्युभयोर्भावादस्मात्सादृश्यादी कारमग्निदृष्टयोपासी- नेत्यर्थः ॥१॥ आदित्य ऊकारो निहव एकारो विश्वे देवा औहोयिकारः प्रजापतिहिकारः प्राणः स्वरोऽन्नं या वाग्विराट् ॥ २॥ आदित्य ऊकारः। उच्चरूवं सन्तमादित्यं गायन्त्यूकारश्चायं स्तोभा आदित्यदैवत्ये साम्नि स्तो) ऊ इत्यादित्य ऊकारः। निहव इत्याद्वान- मैकारः स्तोभः । एहीति चाऽऽयन्तीति तत्सामान्यात् । विश्व देवा औहो- यिकारो वैश्वदेव्ये साम्नि स्तोभस्य दर्शनात् । प्रजापतिहिकारः। आनिरुक्त्या- द्धिंकारस्य चाव्यक्तत्वात् । प्राणः स्वरः । स्वर इति स्तोभः। प्राणस्य च स्वरहेतुत्वसामान्यात् । अन्नं या या इति स्तोभोऽन्नम्। अन्नेन हीदं याती- त्यतस्तत्सामान्यात् । वागिति स्तोभो विराडन्नं देवताविशेषो वा । वैराजे साम्नि स्तोभदर्शनात् ॥ २॥ ऊकारमादित्यदृष्टया कथमुपासातत्याशङ्कयाऽऽह-उच्चैरिति । ऊकारादित्ययोंकि धान्तरेण सादृश्यमाह--आदित्यति । एकारसामान्यानिहवदृष्टिरेकारे स्तोभे कार्य- त्याह-निहव इत्यादिना। औहोयिकारस्य विश्व(श्वोदेवदृष्टयोपास्तौ हेतुमाह- वैश्वदेव इति । प्रजापति दृष्टया हिंकारोपास्यत्वे हेतुः--आनिरुक्त्यादिति । नीलपीतादिरूपेण निरुक्त्यविषयत्वात्प्रजापतेरित्यर्थः । अव्यक्तत्वाद्र्पादिरहितत्वादि- त्यर्थः । प्राणस्य चेति चकारास्वरस्य चेत्यर्थः । स्वरहेतुत्वं तन्निवर्तकत्वेन तदात्मक- स्वम् । अन्नं या इति वाक्यं व्याचप्टे--या इति । अन्नदृष्टिी इति स्तोभे कर्त- १ ख. ग. छ, ट. सोऽस्ति त । २ क. ग. ज. झ. ट, होइका । ३ क. 'यन्तीत्या , ४ ख. अ. त्ये वा सा । ५. ग. च. ट. ट. भइ । ६ ठ• ‘ति त्याऽऽह। ७. ग. व. उड. होईका १.८ घ. उ.. ड. द. स्य स्व। ९ क.ट. होईका