पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७ प्रयोदशः खण्डः १३] छान्दोग्योपनिषत् । व्यत्यत्र हेतुमाह--अन्नेनेति । विराड्दृष्टिगिति स्तोभे कार्येत्यत्र हेतुमाह--वैराज इति ॥ २॥ - अनिरुक्तस्त्रयोदशः स्तोत्रः संचरो हुंकारः ॥ ३ ॥ अनिरुक्तोऽव्यक्तत्वादिदं चेदं चेति निर्वक्तुं न शक्यत इत्यतः संचरो विक- ल्यमानस्वरूप इत्यर्थः । कोऽसावित्याह-त्रयोदशः स्तोभो हुंकारः । अव्यक्तो ह्ययमतोऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः ॥ ३॥ ___ अनिरुक्तः कारणात्मा | तस्यानिरुक्त.वं साधयति--अव्यक्तत्वादिति । स चाने. कधा कार्यरूपेण संचरतीति संचरः । हुंकारोऽपि शाखाभेदेन विकल्प्यमानस्वरूपस्त्रयोदश- श्वायं वावेत्यारभ्य गण्यमानस्ततश्च कारणदृष्ट्या हुंकारमुपासीतेत्यर्थः । उक्तमेवोपपादयति- अव्यक्तो हीति । तत्र विकल्प्यमानत्वं हेतुः ॥ ३ ॥ स्तोभाक्षरोपासनाफलमाह- v दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेव साम्नामुपनिषदं वेदोपनिषद वेद ॥४॥ इति प्रथमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ इति छान्दोग्योपनिषदाह्मणे प्रथमोऽध्यायः समाप्तः ॥ १ ॥ दुग्धेऽस्मै वाग्दोहमित्यायुक्तार्थम् । य एतामेवं यथोक्तलक्षणां साम्ना सामावयवस्तोभाक्षरविषयामुपनिषदं दर्शनं वेद तस्यैतद्यथोक्तं फलमित्यर्थः । द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः । सामावयवविषयोपासनाविशेषपरिसमा. प्त्यर्थो वेति ॥ ४॥ इति प्रथमाध्यायस्य त्रयोदशः खण्डः ॥१३॥ इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यश्रीमर्छ. करभगवत्पादकृतौ छान्दोग्योपनिषद्विवरणे प्रथमोऽध्यायः समाप्तः ॥ १॥ १ ख. घ. ङ. 'दं वेई वेति । ग. स. ठ. 'दं वेदं। २ क. घ. ङ. ट. 'कल्पमा । ३ क. ग. ड. ट. ठ. ड. द. ६ हुँ । ४ क. कलामा । ५ क. ट. वेदेति ॥ ४ ॥ ६. ग.. ७. च. ट. ट. ड. "नाशे । ७. प्त्यर्थ इति शब्दः ॥ ४ ॥