पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२द्वितीयाध्याये- नैतानि व्यरतान्युपासनानि प्रत्येकं फलाश्रवणात् । समस्तं पुनरेकमिदमुपासनभेकफल. स्वादित्यभिप्रेत्याऽऽह—स्तोभाक्षरोति । उपनिषदं वेदोपनिषदं वेदेल्यावृत्तेस्तापर्यमाह- द्विरभ्यास इति । प्रथमप्रपाठकव्याख्यानसमाप्तावितिशब्दः ॥ ४ ॥ इति प्रथमाध्यायस्य त्रयोदशः खण्डः ॥१३॥ इति श्रीमत्परमहंसपरिव्राजक शुद्धानन्दपज्यपादशिष्यभगवदानन्दज्ञानकृताया छान्दोग्यभाष्यटीकायां प्रथमोऽध्यायः समाप्त: ॥ १ ॥ (अथ दितीयाध्यायस्य प्रथमः खण्डः।) ओमित्येतदक्षरमित्यादिना सामावयवविषय मुपासनमनेकफलमुपदिष्टम् ।। अनन्तरं च स्तोभाक्षरविषयमुपासनमुक्तम् । सर्वथाऽपि सामैकदेशसंवैद्धमेव तदिति । अथेदानी समस्तै साम्नि समस्तसामविषयाण्युपासनानि वक्ष्यामी- त्यारभते श्रुतिः । युक्तं ह्येकदेशोपासनानन्तरमेकदेशिविषयमुपासनमुच्यत इति । ॐ । समस्तस्य खलु साग्न उपासनः साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ ३ ॥ समस्तस्य सर्वावयवविशिष्टस्य पाश्चभक्तिकस्य साप्तभक्तिकस्य चेत्यर्थः । खल्विति वाक्यालंकारार्थः । साम्न उपासनं साधु । समस्ते सान्नि साधुह. ष्टिविधि परत्वान्न पूर्वोपासननिन्दार्थत्वं साधशब्दस्य । नन पूर्वत्रा विद्यमान साधुत्वं समस्ते साम्न्यभिधीयते । न । साधु सामेत्युपास्त इत्युपसंहारात् । साधुशब्दः शोभनवाची । कथमवगम्यत इत्याह--यत्खलु लोके साधु शोभन- मनवा प्रसिद्धं तत्सामेत्याचक्षते कुशलाः । यदसाधु विपरीतं तदसामेति॥१॥ पूर्वोत्तरप्रपाठकयोः संगति दर्शयति--ओमित्येतदित्यादिना । सर्वथाऽपि सामावयव विषयत्वे स्तोभाक्षरविषयत्वे चेयर्थः । इतिशब्दो हेवर्थः । यस्मादेकदेश- १ ख. घ. अ. ठ. ड. ढ. 'दि सा । २ ख. ब. रमने के देशवि । ४ ख. व. ङ. च. अ. पातोपा। द. ठ. द. 'बन्धमे । ३ ग. ट.