पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C प्रथमः खण्डः १] छान्दोग्योपनिषत् । विषयाण्युपासनानि वृत्तानि तस्मात्तानि समस्तविषयाणि वक्तव्यानीत्यर्थः । एकदेशोपा- स्तिव्याख्यानन्तर्यमथशब्दार्थः । कथमुक्रवक्ष्यमाणोपासनयोरिदं पौर्वापर्य तत्राऽऽह-युक्तं हीति । समस्तस्योपासनं साध्विति वचनादवयवोपासनं निन्दितत्वादननुष्ठेयमित्याशङ्कयाऽऽ. ह-समस्त इति । अर्थादस्ति निन्देति शङ्कते-नन्विति । पूर्वत्रापि साधु वस्त्र विद्यमान- स्यैव विशेषणत्वेनानुपादानान्नार्थादपि निन्देति परिहरति-न साध्विति । यत्खल्वि- त्यादि व्याख्यातुं पातनिकामाह-साधुशब्द इति । वाक्यमवतार्य व्याचष्ट--कथमिः त्यादिना ॥ १ ॥ तदुताप्पाहुः साम्नैनमुपागादिति साधुनैनमुपागादि- त्येव तदाहुरसानैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ २॥ तत्तत्रैव साध्वसाधुविवेककरण उताप्याहुः--साम्नैनं राजानं सामन्तं चोपागादुपगतवान् । कोऽसौ । यतोऽसाधुत्वप्राप्त्याशङ्का स इत्यभिप्रायः । शोभनाभिप्रायेण साधुनैनमुपागादित्येव तत्तत्राऽऽहुलौकिका बन्धनायसाधुका. गमपश्यन्तः । यत्र पुनविपर्ययो बन्धनाद्यसाधुकार्य पश्यन्ति तत्रासान्नैनमुपा- गादित्य साधुनैनमुपागादित्येव तदाहुः ॥ २ ॥ किं पुनरवं विवेककरणे क.रणमित्याशङ्कयाऽऽह--तत्तत्रेति । विवेककरणोपायभेद- विकल्पार्थमुतत्यु भयत्र पदम् । साम्नै नमित्यादिना साधुनेत्यादिवाक्यस्य पौनरुक्त्यमाशङ्कय व्याख्यानव्याख्येयभायान्मैवमित्याह---शोभनेति । शोभनकार्यदर्शने सतीति यावत् । तत्रैव हेत्वन्तरमाह-बन्धनादीति । असान यादि व्याचष्टे--यत्रेति ॥ २॥ अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भव- त्यसाधु बतेत्येव तदाहुः ॥ ३ ॥ अथोतान्याहुः स्वसंवेद्यं साम नोऽस्माकं वतेत्यनुकम्पयन्तः संवृत्तमि० त्याहुः । एतत्तैरुक्तं भवति यत्साधु भवति साधु बतेत्येव तदाहः । १ ग. ट. सनस्य नि' । २ च. ट. 'त्रै सा । ३ ङ. च. ड. ढ. 'न्तं वोपा ॥ ४ ख. डा. ह. ढ. हवं त । ५ ख. . तदाहु' । ६ क. 'ययेण । ७ ख. ङ. अ. ड. द. ताप चाऽऽहुः । ८ क. ख. उ. प. यतः ।