पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २] छान्दोग्योपनिपत् । ८३ अथाऽऽवृत्तेषु द्यौर्हिकार आदित्यः प्रस्तावोऽ- न्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निध- नम् ॥ २ ॥ अथाऽऽत्तेष्ववाङ्मुखेषु पञ्चविधमुच्यते सामोपासनम् । गत्यागतिविशिष्टा हि लोकाः । यथा ते तथादृष्टयैव सामोपासनं विधीयते यतोऽत आवृत्तेषु लोकेषु । द्यौहिंकारः माथम्यात् । आदित्यः प्रस्तावः । उदिते ह्यादित्ये प्रस्तू- यन्ते कर्माणि माणिनाम् । अन्तरिक्षमुद्गीथः पूर्ववत् । अग्निः प्रतिहारः । प्राणिभिः प्रतिहरणादग्नेः । पृथिवी निधनम् । तत आगतानामिह निधनात् ॥२॥ 7 अथाऽ:वृत्तेष्विति वाक्यं व्याकरोति--अथेति । पृथिवीमुख्येषु द्युपर्यन्तेषु पञ्चविध- सामोपासनकथनानन्तर्यमथशब्दार्थः । पूर्वोत्तरग्रन्थयोमिथो विरोधं शङ्कित्वा परिहरति-- गत्यागतीति । यथा वा ते गतिविशिष्टास्तथादृष्टयैव हिंकाराद्युपासनं विहितम् । यथा चाऽऽगतिविशिष्टास्ते तथादृष्टयैव तदुपासनं विधीयते । तथा च शास्त्रानुसारेण क्रिय. माणयोरुपासनयोर्न विरोधोऽस्तीत्यर्थः। द्विधोपास्तिविषयसंदर्भयोविरोधाभावमनूद्य फलित- मुपासनं दर्शयति--यत इति । द्युलोकदृष्ट्या हिंकारस्योपास्यत्वे हेतुमाह--प्राथम्या- दिति । आवृत्ती द्युलोकस्याऽऽरम्भे च हिंकारस्य प्राथम्यं द्रष्टव्यम् । आदित्यदृष्ट्या प्रस्तावस्योपास्यत्वे हेतुमाह-उदित इति । पूर्ववदिति गकाराक्षरसामान्यं विवक्षितम् । अग्निदृष्टया प्रतिहारोपास्तौ हेतुमाह-प्राणिभिरिति । प्रतिहरणमितस्ततो नयनम् ॥२॥ कल्पन्ते हास्मै लोका ऊर्वाश्चाऽऽवृत्ताश्च य एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते ॥ ३॥ इति द्वितीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ उपासनफलं-कल्पन्ते समर्था भवन्ति हास्मै लोका ऊर्वाश्चाऽऽवृत्ताश्च गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः । य एतदेवं विद्वाल्लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्त इति सर्वत्र योजना पञ्चविधे सप्तविधे च ॥३॥ इति द्वितीयाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ १ स. स. ड. 'दित आदि । २ क. विविधों । ग. ट. हित्वोपा।