पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः ४] ना छान्दोग्योपनिषत् । हास्मा इच्छातः । तथा वर्षयति हासत्यामपि दृष्टौ । य एतदित्यादि पूर्ववत् ॥ २॥ इति द्वितीयाध्यायस्य तृतीयः खण्डः ॥३॥ उद्ग्रहणदृष्टया निधनोपासने निदानमाह-समाप्तीति । वर्षति पर्जन्ये तदनुमन्तु स्वमकिंचित्करमित्याशङ्कयाऽऽह--असत्यामपीति ॥ २ ॥ इति द्वितीयाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ (अथ द्वितीयाध्यायस्य चतुर्थः खण्डः) सर्वास्वप्सु पञ्चविध सामोपासीत मेघो यर्स- पूवते स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुदो निधनम् ॥ १ ॥ सर्वास्वप्सु पञ्चविधं सामोपासीत । दृष्टिपूर्वकत्वात्सर्वासामपामानन्तर्यम् । मेघो यत्संप्लवत एकीभावेनेतरेतरं घनी भवति मेघो यदोन्नतस्तदा संप्लवक्त इत्युच्यते मेघस्तदाऽपामारम्भः स हिंकारः । यद्वति स प्रस्तावः । आप सर्वतो व्याप्तुं प्रस्तुताः । याः प्राच्यः स्यन्दन्ते स उद्गीथः । श्रेष्ठयात् । याः प्रतीच्यः स प्रतिहारः प्रतिशब्दसामान्यात् । समुद्रो निधनम् । तनिधनत्वा- दपाम् ॥१॥ किमिति वृष्टिदृष्टेरनन्तरमपां दृष्टिः साम्नि क्षिप्यते तत्राऽऽह-वृष्टिपूर्वकत्वादिति। मेघसंप्लवदृष्टया हिंकारमारम्भसामान्यादुपासीतेत्याह-मेघ इति । वर्षदृष्ट्या प्रस्तावस्योपा- स्यत्वे हेतुमाह-आप इति । प्राच्यो नद्यो गङ्गाद्याः । प्रतीच्यस्तु नर्मदाद्या इति भेदः॥१॥ न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वा- स्वप्सु पञ्चविध सामोपास्ते ॥ २॥ इति द्वितीयाध्यायस्य चतुर्थः खण्डः ॥४॥ १ क. दोद्गता वो तदा । इ. च. ड, ढ, उनन ।