पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता--[२ द्वितीयाध्याये- न हाप्सु प्रैति । नेच्छति चेत् । अप्सुमानम्मान्भवति फलम् ।। २ ॥ इति द्वितीयाध्यायस्य चतुर्थः खण्डः ॥ ४॥ --- तर्हि गङ्गादावपेक्षितमपि मरणं न स्यादिति चेत्तत्राऽऽह-नेच्छति चेदिति । असावुपासको मरुस्थलीष्वपि यथेच्छमुदकवान्भवतीत्यर्थः ॥ ४ ॥ इति द्वितीयाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ Omahar ( अथ द्वितीयाध्यायस्य पञ्चमः खण्डः।) ऋतुषु पञ्चविध सामोपासीत वसन्तो हिंकारों ग्रीष्मः प्रस्तावो वर्षा उद्दीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥१॥ ऋतुषु पञ्चविधं सामोपासीत । ऋतुव्यवस्थाया यथोक्तानिमित्तत्वादानन्त- यम् । वसन्तो हिंकारः । पाथम्यात् । ग्रीष्मः प्रस्तावः । यवादिसंग्रहः प्रस्तूयते हि माडर्थम् । वर्षा उद्गीथः । प्राधान्यात् । शरत्मतिहारः । रोगिणां मृतानां च प्रतिहरणात् । हेमन्तो निधनम् । निवाते निधनात्माणिनाम् ॥ १॥ किमिति सलिलदृष्टयनन्तरमृतुदृष्टिः साम्नयारोप्यते तत्राऽऽह-ऋतुव्यवस्थाया इति ॥१॥ कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं विद्वानतुषु पञ्चविध सामोपास्ते ॥ २ ॥ इति द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ फलं-- कल्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मा उपासकायतवः । ऋतुमानातवैोगैश्च संपन्नो भवतीत्यर्थः ॥ २ ॥ इति द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ क. म. घ. च. ट. ठ. मान्म । २ ख. ग. घ. ञ, ट. ठ. थोक्तोपारितनिमि । ३ क. ख. ड, ढ, निधाना । ४ ख, ग, ञ, सामन्यारो ।