पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः ६ ] छान्दोग्योपनिषत् । ऋतुव्यवस्थानुरूपं तत्र क्रियाविशेषणम् । कस्यचिदनुपासितुरपि क्रमेण तत्तद्वतुफलभो- गभागितोपपत्तेर्नेदमुपासनानुरूपं फलमित्याशझ्याऽऽह--ऋतुमानिति। संपन्नः सर्वदा स्वेच्छावशादिति शेषः ॥ २॥ इति द्वितीयाध्यायस्य पञ्चमः खण्डः ॥ ५॥ (अथ द्वितीयाध्यायस्य षष्ठः खण्डः।) पशुषु पञ्चविध सामोपासीताजा हिंकागेs- वयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ १॥ पशुषु पञ्चविधं सामोपासीत । सम्यग्वत्तेष्वृतुषु पशच्यः काल इत्यानन्त- यम् । अजा हिंकारः। प्राधान्यात्प्राथम्याद्वा । अजः पशनां प्रथम इति श्रुतेः। अवयः प्रस्तावः । साहचर्यदर्शनादजादीनाम् । गाव उद्गीथः । श्रेष्ठयात् । अश्वाः प्रतिहारः । प्रतिहरणात्पुरुषाणाम् । पुरुषो निधनम् । पुरुषाश्रयत्वात्प- शूनाम् ॥ १॥ ऋतुदृष्टयनन्तरं सान्नि पशुदृष्टय शिपकारणमाह--सम्यगिति । अजादृष्टया हिंका- रोपासने हेतुद्वयमाह-प्राधान्यादित्यादिना । अजाया यज्ञसंबन्धात्प्राधान्यम् । प्राथम्यं तु प्रथमपाठादिति द्रष्टव्यम् । ब्राह्मणो मनुष्याणामजः पशूनां तस्मात्ते मुख्या मुखतो ह्यज्यन्तेति श्रुतिमजाप्राधान्ये प्रमाणयति-अज इति । तस्माज्जाता अजावय इति श्रुतेरजानामवीनां च साहचर्य हिंकारपस्तावयोश्च साहचर्य प्रसिद्धम् ॥ १ ॥ भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पञ्चविध सामोपास्ते ॥ २ ॥ इति द्वितीध्यायस्य षष्ठः खण्डः ॥ ६ ॥ फलं-भवन्ति हास्य पशवः पशमान्भवति । पशुफलैश्च भोगत्यागादि- भियुज्यत इत्यर्थः ॥ २॥ इति द्वितीयाध्यायस्य षष्ठः खण्डः ।। ६ ॥ १ ग. द. तक्रिया । २ घ. ङ. ढ. चर्यादजानाम् । ३ ख. ज. ड. नात् । गा। ४ ट, रोपे का। ५. च. गागा।