पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-रद्वितीयाध्याये- पशुमान्भवतीत्यस्य पूर्वेण पौनरुक्त्यं परिहरति--पशुफलश्चेति ॥ २॥ इति द्वितीयाध्यायस्य षष्ठः खण्डः ॥ ६॥ (अथ द्वितीयाध्यायस्य सप्तमः खण्डः ।) प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिंकारो वाक्प्रस्तावश्चक्षुरुद्वीथः श्रोत्रं प्रति- हारो मनो निधनं परोवरीयासि वा एतानि ॥ १ ॥ माणेषु पञ्चविधं परोवरीयः सामोपासीत । परंपरं वरीयस्त्वगुणवत्ताण- दृष्टिविशिष्टं सामोपासीतेत्यर्थः । प्राणो घोणं हिंकारः। उत्तरोत्तरवरीयसां माथम्यात् । वाक्प्रस्तावः । वाचा हि प्रस्तूयते सर्वम् । वाग्वरीयसी प्राणात् । अप्रौप्तमप्युच्यते वाचा माप्तस्यैव तु गन्धस्य ग्राहकः प्राणः । चक्षुरुद्गीथः । वाचो बहुतविषयं प्रकाशयति चक्षुरतो वरीयो वाच उद्गीथः । श्रेष्ठथात् । श्रोत्रं प्रतिहारः । प्रतिहतत्वात् । वरीयश्चक्षुषः सर्वतः श्रवणात् । मनो निधनम् । मनसि हि निधीयन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियार्हता विषयाः। वरीयस्त्वं च श्रोत्रान्मनसः । सर्वेन्द्रियविषयव्यापकत्वात् । अतीन्द्रियविषयोऽपि मनसो गोचर एवेति । यथोक्तहेतुभ्यः परोबरीयांसि प्राणादीनि वा एतानि ॥१॥ पशुप्रसूतपयोघृतादिनिमित्तत्वात्प्राणस्थितेस्तदृष्टयनन्तरं माणदृष्ट्या सामोपास्ति प्रस्तो- ति-प्राणेष्विति । प्राणशब्दस्य मुख्यप्राणविषयत्वं व्यावर्तयति-घोणमिति । मख्यप्राणादत्तरेषां वरीयस्वासंभवात्तस्य सर्वश्रेष्ठतया निर्धारितत्वात्परंपरं वरीयसां वागा. दीनां मध्ये प्रथमभावित्वेनोक्तत्वाद्माणमेवात्र प्राणशब्दमित्यर्थः । कथं प्राणाद्वाचो वरी- यस्त्वं तत्राऽऽह-वाचेति । अप्राप्तवं व्यवहितत्वम् । चक्षुषो वरीयस्वं साधयति- वाच इति । शब्दस्येति यावत् । वाचः शब्दारसकाशादित्यर्थः । उदी. थावे चक्षुषो हेतुमाह-श्रेष्ठयादिति | मनसो वरीयस्त्वे हेत्वन्तरमाह-अतीन्द्रित १ ख. . °णदृष्टिव । २ क. ग. च. ट. ठ. प्राणों। ३ ख. ह. अ. ड.. प्राप्त ह्यच्य। ४ क. ग. घ. क. ट. ढ. ड. ढ. °णः । वा । ५ ख.न. तर वि। ६ क. म. च. ट हतवि०१७ ड. व्यापारत्वा । ८ ख. आ. 'सि वाणा । ९ क. छ. घाण इति । १० ख. ञ. ध्ये पृथग्भावि । ११ क, °ण एवा । १२ क, 'ब्द इत्य।