पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः ८] छान्दोग्योपनिषत् । योति । इति वरीयस्त्वमिति पूर्ण संबन्धः । अप्राप्तमप्युच्यते वाचैत्यादयो यथोक्तहे- तवः ॥१॥ परोवरीयो हास्य भवति परोवरीयसो ह लोका- अयति य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ॥ २ ॥ इंति द्वितीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ एतदृष्ट्या विशिष्टं यः परोवरीयः सामोपास्ते परोवरीयो हास्य जीवनं भवतीत्युक्तार्थमिति तु पञ्चविधस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्य माणविषये बुद्धिसमाधानार्थम् । निरपेक्षो हि पञ्चविधे वक्ष्यमाणे बुद्धिं समा- धित्सति ॥२॥ इति द्वितीयाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ उक्तोपसंहारविरहेऽपि वक्ष्यमाणे बुद्धिसमाधानं किं न स्यादिल्याशङ्कयाऽऽह-निर पेक्षो हीति ॥ २ ॥ इति द्वितीयाध्यायस्य सप्तमः खण्डः ॥ ७॥ (अथ द्वितीयाध्यायस्याष्टमः खण्डः।) अथ सप्तविधस्य वाचि सप्तविध५ सामोपासीत यत्चि वाचो हुमिति स हिंकारो यत्मेति स प्रस्तावो यदेति स आदिः ॥ १ ॥ अथानन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते । बाचीति सममी पूर्ववत् । वादृष्टिविशिष्टं सप्तविध सामोपासीतेत्यर्थः । यत्किच वाचः शब्दस्य हुमिति यो विशेषः स हिंकारो हकारसामान्यात् । यत्प्रेति शब्दरूपं स प्रस्तावः प्रसामान्यात् । यत्--आ, इति स आदिः। आकार- सामान्यात् । आदिरित्योंकारः । सवोदित्वात् ।। १॥ अधिकसंख्याज्ञानस्याल्पसंख्याज्ञानपूर्वकत्वात्पञ्चविधोपासनानन्तरं सप्तविधोपासनं प्रस्तो १ . ड. 'टं प । २ . 'स्य समस्तस्य सा । ३ ग. च. द. ह. °३ च ।