पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२ द्वितीयाध्याये- ति-अथेति । पूर्ववल्लोकेष्वितिवत्सप्तमी च नेतव्येत्यर्थः । वाक्शब्देन शब्दसामान्यमुच्यते तत्सप्तधाप्रविभक्त सामावयवेष्वारोप्योपासनं कर्तव्यमिति वाक्यार्थमाह-वाग्दृष्टीति । यत्किंच वाच इति वाक्योपादानं तस्यार्थमाह-शब्दस्येति ॥ १ ॥ यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो यदु- यदुदिति स उद्गीथः । उत्पूर्वत्वादुद्गीथस्य । यत्प्रतीति स प्रतिहारः । प्रति- सामान्यात् । यदुपति स उपद्रव उपोपक्रमत्वादुपद्रवस्य | यन्नीति तन्निधनम् । निशब्दसामान्यात् ॥ २ ॥ ॥२॥ दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान्वाचि सप्तविध सामो- पास्ते ॥ ३ ॥ इति द्वितीयाध्यायस्थाष्टमः खण्डः ॥८॥ दुग्येऽस्मा इत्यायुक्तार्थम् ॥ ३॥ इति द्वितीयाध्यायस्याष्टमः खण्डः ॥ ८॥ इति द्वितीयाध्यायस्याष्टमः खण्डः ॥ ८ ॥ . (अथ दितीयाध्यायस्य नवमः खण्डः।) अथ खल्वमुमादित्य सप्तविध५ सामोपासीत सर्वदा समस्तेन साम मां मति मां प्रतीति सर्वेण समस्तेन साम ॥ १ ॥ अवयवमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेयूक्ता प्रथमे चाध्याये । अथेदानी खल्वमुमादित्यं समस्ते सामन्यवयवविभागशोऽध्यस्य सप्त- विधं सामोपासीत । कथं पुनः सामत्वमादित्यस्येति । उच्यते । उद्गी-