ग्रन्थावतरणिका ] प्रथमोऽध्यायः । न्त्रावापौ संक्षेपेणोक्तौ । तृतीये--तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम् । चतुर्थ-तथै- वाऽऽवापः प्रपञ्चितः । प्रसङ्गस्तन्त्रिनिर्णीतिस्समुच्चयविकल्पने । द्वादशाध्यायपादार्था इति पादार्थसङ्ग्रहः ॥ २४ ॥ द्वादशाध्यायस्य प्रथमे पादे-पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्त- रकालीनकर्मसु प्रसङ्ग इत्यादिविचारः । द्वितीये-सवनीयपशोस्तन्त्रित्वम् , न तु सवनीयपुरोडाशानाम् । विकृतिस्तन्त्रिणी, न प्रकृतिः, अन्वारम्भणीया विकृतिष्वपि स्यात् , न तु प्रकृतावेवेत्यादिविचारः । तृतीये-त्वग्वाससोस्समुच्चयः । आघारगता- नामृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुचयापवादत्वेनेत्युभयं चिन्तितम् । चतुर्थे च-ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुग- लयोर्विकल्प इत्यादिकं प्राधान्येन, याज्यानुवाक्ययोस्समुच्चय इत्यादिकं विकल्पापवाद- त्वेनेत्युभयं चिन्तितम् । तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाद्या अर्थास्सगृहीताः ॥ ननु यथोक्तेभ्यः पादार्थेभ्योऽन्येऽप्यर्थी बहवस्तत्तत्पादेषु विचार्यन्ते, तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्कयाऽऽह-- उपोद्घातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः । तत्तत्पादगतत्वेन विचारान्तरमुन्नयेत् ॥ २५ ॥ यथोक्तपादप्रतिपाद्यादन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः, कश्चिंदपवादः, कश्चित्प्र- सङ्गपतितः, कश्चिदनुप्रसङ्गपतित इत्येवं पादान्तर्भाव उन्नेयः ॥ ननु सन्त्वेवमध्यायानां पादानां च व्यवस्थिता अर्थाः । तदीयस्तु क्रमः कथमवग- न्तव्य इत्यत आह-- शास्त्रे पूर्वोत्तरीभावोऽध्यायानामभिधास्यते । पादानां तु तमत्रैव लेशाद्वयुत्पादयामहे ॥ २६ ॥ एकस्मिन्नध्याये समाप्ते सत्यध्यायान्तरारम्भे तयोरध्याययोः पूर्वापरीभावो वक्ष्यते ॥ प्रथमाध्यायगतानां पादानां पूर्वोत्तरीभाव उदाहृते सति तद्व्युत्पत्त्या पादान्तरेष्व पि तस्योत्प्रेक्षितुं शक्यतया तमुदाहरति-- विधिस्साक्षामितिधर्मे तस्य शेषोऽर्थवादगीः। 2. वेदमूला स्मृतिर्नाम वाक्यांशोऽमीष्वतः क्रमः ॥ २७ ॥
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०
एतत् पृष्ठम् परिष्कृतम् अस्ति