पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. २. आध. ११ त्कर्मणोऽन्यद्दधिहोमरूपं कर्म इति पूर्वन्यायेनाऽवगम्यते । यथा पूर्वत्र वाजिनद्रव्येण कर्म भिद्यते, तथा दधिद्रव्येणेति चेत्-- न; वैषम्यात् । यथा वैश्वदेवो याग आमिक्षागुणावरुद्धः, तथाऽग्निहोत्रं न गुणा- न्तरावरुद्धम्। प्रत्युत निर्गुणत्वाद्गुणमाकाङ्क्षति । तस्मादयं गुणविधिः । एवं “पयसा जुहोती” त्यादिषु द्रष्टव्यम् । पयोदध्यादीनां सर्वेषामुत्पन्नशिष्टतया समबलत्वादेकैकेन द्रव्येणाऽग्निहोत्रनिष्पत्तेश्च व्रीहियववद्विकल्पः ॥ इति दशमं गुणशेषाधिकरणम् ॥ १० ॥ अथैकादशमिन्द्रियकामाधिकरणम् ॥ ११ ॥ (१)एकादशाधिकरणमारचयति- यद्दध्नेन्द्रियकामस्य जुहुयादिति तत्पृथक् । गुणो वा भिद्यते कर्म धात्वर्थस्य फलित्वतः ॥ २७ ॥ मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु | गुणे विधेये धात्वर्थो विहितत्वादनूद्यते ॥ २८ ।। (२)“दध्नेन्द्रियकामस्य जुहुयात्” इति श्रूयते । तदिदं प्रकृतादग्निहोत्रादन्यत्कर्म, न त्वत्र विधिः । कुतः ? 'इन्द्रियकामस्य' इत्युक्तस्य फलस्य धात्वर्थमन्तरेण द्रव्यमा त्रादनिष्पत्तेरिति चेत्- मैवम् ; कर्मान्तरविधौ ‘दधिमता होमेनेन्द्रियं भावयेत्' इति मत्वर्थ लक्षणाप्रस- ङ्गात् , गुणविशिष्टक्रियाविधौ गौरवात् , प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गाच्च । गुणमात्रं तु फलाय विधीयते । यद्यपि 'दध्ना जुहोती'ति प्राप्तम् , तथाऽपि फलसम्बन्धो न प्राप्तः । धात्वर्थाभावे फलासंभव इति चेत्-न; "अग्निहोत्रं जुहोती ति विहितस्य धात्वर्थस्याऽनूद्यमानत्वात् ॥ , - इत्येकादशमिन्द्रियकामाधिकरणम् ॥ १. पूर्वाधिकरणेनाऽस्याऽऽपवादिकी सङ्गतिः । २. ते. ब्रा. २. १. ५. ६.