अथ तृतीयाध्यायस्य प्रथमः पादः ।। द्वितीये कर्मणां भेदे सिद्धे भिन्नक्रियास्वयम् । बुभुत्सितः शेषशेषिभावोऽतोऽत्राभिधीयते ॥ १॥ अनेन द्वितीयतृतीययोरध्याययोः पौर्वापर्य निरूपितम् ॥ तत्र प्रथमं प्रतिज्ञाधिकरणम् ॥ १ ॥ तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति- अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः । क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात् ।। २ ।। गुणप्रधानभावेन संसर्गेऽन्तर्भवत्यसौ । व्युत्पत्तिसंभवात्तत्र शाब्दता स्याक्रियादिवत् ।। ३ ।। यदिदमस्मिस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम् , न तच्छाब्दम् । कुतः ? केनापि शब्देन शेषत्वस्याऽप्रतीयमानत्वात् । व्युत्पन्नो हि शब्दः प्रत्यायकः । व्युत्पत्तिश्च न शेषशेषिभावे क्वचिदृष्टा । लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्श- नात् । अतः शेषताया अशाब्दत्वान्नाऽयमध्याय आरम्भणीय इति चेत्- मैवम् ;-अन्वये शेषशेषिभावस्याऽन्तर्भावात् । न हि गुणप्रधानभावमन्तरेणाऽन्व- यः संभवति । द्वयोर्गुणयोः परस्पर काङ्क्षारहितत्वेनाऽन्वययोग्यत्वाभावात् । एवं द्वयोः प्रधानयोरपि । अतो व्युत्पत्तिसंभवात्क्रियाकारकतदन्वया यथा शाब्दाः, तथा तदन्व - यान्तर्गतः शेषशेषिभावोऽपि शाब्दः । तस्मादयमध्याय आरम्भणीयः ॥ इति प्रथमं प्रतिज्ञाधिकरणम् ॥ अथ द्वितीयं शेषलक्षणाधिकरणम् ॥ २॥ द्वितीयाधिकरणमारचयति- स्वरूपहेतू न स्तोत्र स्तो वा नैवानिरूपणात् । पारार्थ्यं शेषताहेतू रूपं तेनोपलक्षितम् ॥ ३ ॥ न तावदन शेषत्वस्य स्वरूपं निरूपयितुं शक्यते । तथा हि-शेषत्वं नाम कि-
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२१
एतत् पृष्ठम् परिष्कृतम् अस्ति