- बादर्यधिकरणम् ] तृतीयोऽध्यायः । १२१ मविनाभूतत्वम् , प्रयोज्यत्वं वा, (१)विध्यन्तविहितत्वं वा । नाऽऽद्यः-(२)षड्यागा- नामविनाभूतानां परस्परशेषत्वप्रसङ्गात् । न द्वितीयः-"पुरोडाशकपालेन तुषानुप- वपती” त्यत्र तुषोपवापं प्रति शेषस्याऽपि कपालस्य तत्प्रयोज्यत्वाभावात् । न तृतीयः- विध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहित्वाभावात् । तस्मान्नाऽस्ति शेषतायाः स्वरूपम् । नाऽपि हेतुरस्ति, 'विमतः शेषः, एवंत्वात्' इति कस्यचिद्धेतोरनिरूपणादिति प्राप्ते- ब्रूमः-विमतः प्रयाजादिः, शेषः, परार्थत्वात् , भृत्यादिवदिति हेतुः सुनिरूपः । अविनाभूतत्वादीनां लक्षणानां दुष्टत्वेऽपि ‘परार्थः शेषः' इति लक्षणस्याऽदुष्टत्वात् । तेन लक्षित आकारः स्वरूपम् । न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च साङ्कर्यम् , आकारभेदेन तद्भेदात् । दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः । इत. रव्यावृत्त्या बोधक आकारो लक्षणम् । तस्माच्छेषताया हेतुस्वरूपे विद्येते ॥ इति द्वितीयं शेषलक्षणाधिकरणम् ॥ २ ॥ अथ तृतीयं बादर्यधिकरणम् ॥ ३ ॥ तृतीयाधिकरणमारचयति- किं द्रव्यगुणसंस्कारमात्रं शेषोऽथवा फलम् । पुमान् कर्म च पक्षौ द्वावादेयौ मतभेदतः॥५॥ शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः। पारार्थ्यं शेषता तच्च सर्वेष्वस्तीति जैमिनिः ॥६॥ स्फ्यकपालादिकं द्रव्यम् , अरुणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः, एतेषु त्रिष्वेव शेषत्वम् । स्वर्गः फलम् , तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म । न हि फलादीनां त्रयाणां शेषत्वमस्ति, उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावादिति बादरेर्मतम् । पारार्थ्यं लक्षणमभिप्रेत्य फलादयोऽपि शेषा इति जैमिनेर्मतम् । तथा च त्रीणि सूत्राणि पठ्यन्ते-“कर्माण्यपि जैमिनिः फलार्थत्वात्। “फलं च पुरुषार्थत्वात्।" "पुरुषश्च कर्मार्थत्वात्" इति । तत्रोपकारित्वमतिव्याप्तम् , प्रधानभूतेऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात् । तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः ॥ इति तृतीयं बादर्यधिकरणम् ॥ ३॥ १. विधेरन्तो विध्यन्तः । विधिरत्र प्रधानविधिः । तत्प्रवृत्त्यनन्तरविहितत्वं वि- ध्यन्तविहितत्वम् । २. पौर्णमास्यां त्रयो यागाः-आग्नेयः, उपांशुयाजः, अग्नीषोमीयश्चेति । एवं दर्श- ११ जै० न्या० "
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२२
एतत् पृष्ठम् परिष्कृतम् अस्ति