१२४ सविस्तरायां जैमिनीयन्यायमालायां [ अ. ३. पा. १. अधि. ६ अरु- E ज्योतिष्टोमे श्रूयते-(१)“अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" इति । तत्र-अरुणाशब्दोऽरुणिमानं गुणमाचष्टे । गुणिविषयतया प्रयुज्यमानस्याऽपि “नाऽगृ. हीतविशेषणा विशिष्ट बुद्धिः” इति न्यायेन गुणबोधकत्वात् । अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च । तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चाऽनुपपन्नम्, अमूर्तस्य गुणस्य वासोहिरण्यादिवत्क्रयसाधनत्वासम्भवात् । ततस्तृ- तीयाश्रुतेविनियोजकत्वाभावेन प्रकरणस्याऽत्र विनियोजकत्वं वक्तव्यम् । प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति । न चाऽनेन न्यायेन पिङ्गाक्ष्येकहायनी- शब्दार्थयोरपि सर्वव्यगामित्वं शङ्खनीयम् , तयोः शब्दयोर्द्रव्यवाचित्वात् । पिङ्गल वर्णे अक्षिणी यस्यास्सा गौः पिङ्गाक्षी। एवमेकहायनी। यद्यप्येकगोवाचिनौ शब्दौ, तथाऽपि विशेषणभूतधर्मभेदाच्छब्द व्यं क्रयसाधनत्वेन विदधाति । न चेतरद्र्व्यमितरद्रव्ये निवेशयितुं शक्यम् । णिमगुणस्तु द्रव्येषु विशेषणत्वेनाऽन्द्वयम् । तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्र-वेतुं योग्यत्वात्तेषु निवेश्यते । तत्रैषाऽक्षरयोजना- 'अरुणया' इत्येतत्पृथग्वाक्यम् । तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वा- ण्यनूद्य प्रातिपदिकेन गुणो विधीयते-यानि ज्योतिष्टोमे साधनद्रव्याणि, तानि सर्वाण्य- रुणानि कर्तव्यानीति । तस्मात् गुणस्संकीर्ण इति प्राप्ते- ब्रूमः-यद्यप्यमूर्तो गुणः, तथाऽपि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति। तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणाऽन्वयो भवति। एवं सति वाक्यभेदो न भवि- ष्यति । ननु वाक्यभेदाभावेऽपि लक्षणा दुर्वारा, गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वा- ङ्गीकारात् । मैवम् ; गुणस्यैवाऽत्र तृतीयाश्रुत्या साधनत्वमुच्यते । तच्च द्रव्यद्वारमन्त- रेण न सम्भवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते । तर्हि ग्रहचमसादिद्रव्यमप्य. वच्छिद्यतामिति चेत्-न; तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूय- माणक्रयसाधनत्वासिद्धेः । तर्हि 'वाससा क्रीणाति' 'अजया क्रीणातीति वस्त्रादीनां क्रय- साधनत्वात्तदवच्छेदोऽस्तित्वति चेत्-न; तेषां क्रयान्तरसाधनत्वात् । न हि (२)तत्राऽग्नि- १. (ते.सं. ६. १.९ ) अरुणा अरुणगुणविशिष्टा, पिङ्गे अक्षिणी यस्यास्सा पिङ्गाक्षी, एक हायनं यस्यास्सा एकहायनी, एकवर्षवयस्केति यावत् । अत्राऽरुणादिशब्दत्रयं लक्ष- णया तद्विशिष्टं क्रयमभिदधाति । तस्य च भावनायां करणत्वेनाऽन्वयः । सोमश्च भाव्य- स्वेनाऽन्वेति। एवञ्च आरुण्यादियुक्तगोविशिष्टक्रयेण सोमं सम्पादयेदिति विषयवाक्यार्थः । २. अयमाशयः–'अग्निहोत्रं जुहोती ति द्रव्यासंसृटकर्मविधिः । तस्य द्रव्यापे- क्षायां दध्यादिवाक्यैः द्रव्यसमर्पणं क्रियते । तेषाञ्चैकविषयाणां विकल्प इति युक्तस्त- त्रैकस्मिन्नेवाऽग्निहोत्रकर्मणि सर्वेषां द्रव्याणां विकल्पेन निवेशः । प्रकृते तु केवलस्य कर्मणो विधायक वाक्यं नाऽस्ति, येन तद्विहिते कर्मणि एकहायन्यादिवाक्यैर्गुगसमर्पण क्रियेत । अतः तेषु गुणविशिष्टक्रयविधिरेवाऽभ्युपगन्तव्यः। उत्पत्तिशिष्टैकगुणावरोधेन गुणान्तरस्याऽनिवेशाच तेष्वपि पृथक्पृथक् विशिष्टविधिरभ्युपगन्तव्य इति दशस्वपि
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२५
एतत् पृष्ठम् परिष्कृतम् अस्ति