१२८ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा.१. अधि. १०. 2 कर्तृयोगाददोषश्चेत्समानेयं समाहितिः । ततः प्रयाजसान्निध्यात्तत्कर्त्रैवाऽस्य संयुतिः ॥ २२ ॥ दर्शपूर्णमासयोः-प्रयाजसमीपे श्रूयते-(१)"अभिक्रामं जुहोति” इति । तत्र होमकाले यदेतदाहवनीयमभितः संचरणम्, तत्कृत्स्नदर्शपूर्णमासकर्त्रा सम्बध्यते; न तु प्रयाजमात्रकर्त्रा । कुतः ? अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाज- क्रियया सम्बन्धासम्भवादिति चेत्- मैवम् ; क्रियारूपत्वादेव दर्शपूर्णमासक्रिययाऽपि सम्बन्धासम्भवात् । अथो- च्येत-अभिक्रमणं कर्तृकारकेण साक्षात्सम्बध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा सम्बध्यत इति । तदेतत्समाधानं प्रयाजसंवन्धेऽपि समानम् । अतः सन्निधिबलात्प्र- याजकर्त्रा सम्बध्यते ॥ एतदेवाधिकरणं वार्तिककारमतेनाऽऽरचयति- यद्वा बलित्वं सान्निध्यादस्ति प्रकरणे ततः। दर्शादिप्रक्रियाधीतेः क्रमणे स्यात्तदङ्गता ॥ २३ ॥ अवान्तरप्रकरणं समिधो यजतीत्यतः। तन्मध्यपाठात्तस्याऽङ्गतद्वारा दर्शशेषता ॥२४॥ ॥ अस्मिन्नपि मते तावेव विषयसंशयौ। पूर्वोत्तरपक्षहेतुमात्रमन्यत् । प्रयाजसन्नि- धितोऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशत इति पूर्वः पक्षः। “समिधो यजतीत्यारभ्याऽऽम्नातमवान्तरप्रयाजप्रकरणम् । तन्मध्येऽभिक्रमण- माम्नातम् । तस्य चाऽभिक्रमणविधेरुभयतः प्रयाजविषयैवाक्यैः सन्दष्टत्वादभिक्रमणं प्रयाजमात्रे निविशत इति राद्धान्तः । अस्मिन्नपि पक्षे महाप्रकरणं न विरुध्यते, प्रयाजद्वारा दर्शपूर्णमासयोर्निवेशात् ॥ इति दशममभिक्रमणाधिकरणम् ॥ १० ॥ १. अभिक्रम्य आहवनीयसमीपं गत्वा जुहुयादित्यर्थः । अयं भावः-दर्शपूर्णमा- सयोः पञ्चसु प्रयाजेषु यष्टव्येषु प्रथमप्रयाजहोम आहनीयाद्दक्षिणतः कियति चन दूरे स्थित्वा कर्तव्यः। द्वितीयप्रयाजहोमस्ततोऽपि किञ्चिदभिक्रम्याऽग्निसमीपं गत्वा कर्तव्यः। एवं पञ्चस्वपि प्रयाजेषु पूर्वपूर्वप्रयाजापेक्षया उत्तरोत्तरप्रयाजार्थं किञ्चित्किञ्चिदिवाऽग्नि- समीपे गन्तव्यम् । तदेतदभिक्रमणमित्युच्यते । अत एव मयूखमालिकायां सोमनाथ- भट्टै:-अभिक्रमणं आहवनीयसमीपगमनमित्येव व्याख्यातम् । एवञ्च सत्यत्र विस्तरे अभिक्रमणं 'यदेतदाहवनीयमभितस्सञ्चरण मिति व्याख्यातं तत्पूर्वोक्तार्थपरतयैव नेयम् ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१२९
एतत् पृष्ठम् परिष्कृतम् अस्ति