लिङ्गक्रमसमाख्याधिकरणम् ] तृतीयोऽध्यायः। १३९ अथ षष्ठं सूक्तवाकस्य विभज्य विनियोगाधिकरणम् ॥ ६ ॥ (१)षष्टाधिकरणमारचयति- प्रहृतेरखिलः सूक्तवाकोऽङ्गं स्याद्विभज्य वा । समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता न हि ॥ १४ ॥ दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम् । आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते ॥ १५॥ पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया, याज्ञिकैः कृत्स्ने तच्छब्द- प्रयोगात् । ततः (२)सर्वोऽपि प्रहरणाङ्गमिति चेत्-- न; लिङ्गेन समाख्याया बाधितत्वात् । तस्मिन्मन्त्रे पूर्णमासदेवताम्नानं कस्मि- श्चिद्भागे दृश्यते "अग्नीषोमाविदं हविरजुषेताम्” इति । भागान्तरे तु दर्शदेवता. म्नानं "इन्द्राग्नी इदं हविरजुषेताम्" इति, “महेन्द्र इदं हविरजुषत' इति च । इन्द्राग्नीमहेन्द्राः (३)पुरुषभेदेन दर्शे व्यवस्थिताः । तथासति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते । सूक्तवाकशब्दश्च भागे यौगिकः 'सुष्ठूक्तं वक्ति' इति तद्व्युत्पत्तेः । यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्ती- त्यर्थः। अत एव ब्राह्मणेन व्याख्यातम्-(४)"अग्निरिदं हविरजुषतेत्याह, या अयाश्म देवतास्ता अरीरधामेति वावैतदाह' इति । अरीरधामाऽऽराधितांस्तुष्टानकु. र्मेत्यर्थः । तस्मादयं विभज्य विनियुज्यते । इति षष्टं सूक्तवाकस्य विभज्य विनियोगाधिकरणम् ॥ ६ ॥ त्यर्थः अथ सप्तमं लिङ्गक्रमसमाख्याधिकरणम् ॥ ७ ॥ (५)सप्तमाधिकरणमारचयति- ऐन्द्राग्नादीष्टयः काम्या याज्या अप्युदिताः क्रमात् । काण्डयोस्ता यथालिङ्गं सञ्चार्या नियमोऽथवा ॥१६॥ १. पूर्वाधिकरणेनाऽस्योपजीव्योपजीवकभावसङ्गतिः । २. 'इदं द्यावापृथिवी' इत्यारभ्य 'नमो देवेभ्यः' इत्यन्तः मध्ये पठ्यमानप्रकृतया- गानुपयुक्तदेवताबोधकभागयुक्तोऽपीत्यर्थः । ३. अनुष्टातृभेदेनेत्यर्थः। ४. तै. सं. २. ६. ९. ५. पूर्वाधिकरणेनास्य प्रासङ्गिकी सङ्गतिः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१४०
एतत् पृष्ठम् परिष्कृतम् अस्ति