लिङ्गप्राबल्याधिकरणम् ] तृतीयोऽध्यायः । १५७ T- नः" इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम् । तथासति सामर्थ्याभावकृतप्रतिबन्धाभावान्नि- र्विघ्ना श्रुतिः शीघ्रं विनियुक्ते । लिङ्गं तु विलम्बते। मन्त्रपदान्यादौ स्वाभिधेयमर्थं प्रतिपादयन्ति । तत ऊर्ध्वं मन्त्रस्य सामर्थ्यं निरूप्यते। पश्चात्सामर्थ्यवशात्साधनत्ववा- चिनी प्राधान्यवाचिनी च श्रुतिः कल्प्यते । सा च श्रुतिः 'मन्त्रेणेन्द्रमुपतिष्ठेत' इति विनि- युङ्क्ते । तथासति प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयोर्मध्यवर्तिनौ सामर्थ्यनिरूपण- श्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्ग बाध्यते । न च प्रत्यक्षश्रुतिविनियोग. वेलायामलब्धात्मकत्वेनाऽप्राप्तं लिङ्गं कथं बाध्येत इति शङ्कनीयम् भविष्यत्प्राप्तिप्रति. बन्धस्यैवाऽत्र बाधत्वात् । श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षाया अनु- दयात्कथं विनियोजकं लिङ्गं प्राप्स्यति । तस्मात् गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते ॥ इति सप्तमं श्रुतिप्राबल्याधिकरणम् ॥ 11 अथाऽष्टमं लिङ्गप्राबल्याधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- स्योनं त इति पूर्वार्धं तस्मिन्सीदेति चोत्तरम् । सदने सादने चाऽयं सर्वो वाऽर्धे व्यवस्थिते ।।२०।। तच्छब्दादेकवाक्यत्वे भवेदाद्यः श्रुतिं प्रति । लिङ्गस्य सन्निकृष्टत्वाद्वाक्यबाधे व्यवस्थितिः ॥ २१ ॥ उदाहृतिरियं वाक्यबाधे न त्वैन्द्रियेत्यसौ । बाधादूर्ध्वं निरर्थत्वादप्रामाण्यप्रसङ्गतः॥२२॥ दर्शपूर्णमासयोः श्रूयते-(१)“स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं कल्पयामि । तस्मिन्सोदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः” इति । 'भोः पुरोडाश, तव समीचीनं स्थानं करोमि । तच्च स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्य कल्पयामि । भो व्रीहिसारभूत, त्वं समाहितमनस्कस्तस्मिन्समीचीने स्थान उपविश । तत्र स्थिरो भव' इत्यर्थः । तत्र 'तस्मिन्' इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वो- त्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वोऽप्ययं मन्त्रः स्थानकरणेऽङ्गं स्यात् । मन्त्रविनियोजिका श्रुतिरेवं कल्पनीया–सर्वेणाऽनेन मन्त्रेण स्थानं कर्तव्यम् इति । तथा-सर्वेण मन्त्रेण पुरोडाशः स्थापनीयः इत्यपि कल्पनीया । सदनाङ्गत्ववत्प्रतिष्ठा- १. (ते. ब्रा. ३. ७. ५.) अत्र 'कृणोमि' इति स्थाने करोमीति पाठः । १४ जै० - न्या
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१५८
एतत् पृष्ठम् परिष्कृतम् अस्ति