पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

धर्मलक्षणाधिकरणम् ] प्रथमोऽध्यायः । १५ (१)विषभोजनवाक्यस्याऽऽप्तप्रणीतत्वेन बाधो मा भूदित मुख्यार्थस्तत्र परित्य- क्तः । वेदे तु-कुतो न विवक्षितार्थत्वम् ? विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य स- न्देहः स सर्वोऽपि विचारशास्त्रस्य विषयः । तन्निर्णयश्च प्रयोजनम् । ततोऽध्यापनवि- धिप्रयुक्तेनाऽध्ययनेन बुध्यमानस्याऽर्थस्य विचार्यत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम् ॥ इति प्रथम जिज्ञासाधिकरणम् ॥ १ ॥ अथ द्वितीयं धर्मलक्षणाधिकरणम् ॥ २॥ (२)द्वितीयाधिकरणं भट्टमतेनाऽऽरचयति- विचारविषयो धर्मो लक्षणेन विवर्ज्जितः । मानेन वाऽथवोपेतस्ताभ्यामिति विचिन्त्यते ॥ ३६ ॥ लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् । मानशङ्का तु दूरेऽत्र प्रत्यक्षाद्यप्रवर्तनात् ॥ ३७ ॥ चोदनागम्य आकारो ह्यर्थत्वे सति लक्षणम् । अत एव प्रमाणं च चोदनवाऽत्र नो कुतः ॥ ३८ ॥ लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः । अत एवाऽऽहुः- "मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात्' इति । सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम् । तेन च लक्षणेन लक्ष्ये वस्तुनि सम्भावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदव- गच्छति । तद्यथा-'सास्नादिमती गौः' इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षित- पदार्थमन्विष्य ‘इयं गौः' इति चक्षुषाऽवगच्छति । एवं च सत्यलौकिकत्वाद्धर्मस्य नाऽस्ति लक्षणम् । तत्र कुतः प्रमातुमुद्योगः ? कथञ्चित्तदुद्योगेऽपि न तत्र प्रमाणसद्भावः शङ्कितु- मपि शक्यः । न तावदत्र प्रत्यक्षं क्रमते, धर्मस्य रूपादिरहितत्वात् । अत एव व्याप्ति- १. द्विषदन्नभोजने प्रवृत्तं कञ्चनाऽऽप्तं तस्मान्निवर्तयितुं कश्चिदाप्तः 'द्विषदन्नं न भोक्तव्य' मित्येतत्तात्पर्यकं विषं भुक्ष्वे' ति वाक्यमुच्चारयामास । तत्र तस्य वाक्य- स्याऽऽप्तप्रणीतत्वरूपहेतुना विषभोजनकर्तव्यताया विवक्षा नाऽस्तीत्यवधार्य प्रतीयमाना- र्थस्य परित्यागः क्रियते । वेदस्य त्वपौरुषेयत्वेन स्वतः प्रमाणत्वात् पूर्वोक्तकारणास- म्भवाच्च कुतोऽविवक्षितार्थतेति भावः । २. इदं कपुस्तके नाऽस्ति । -