१७४ सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.४.अधि.८ , विदहता श्रपयितव्यः सदेवत्वाय” इति । विदग्धोऽत्यन्तपक्कः । अश्रृतोऽपक्कः । तत्र ब- र्हिषि समूलच्छेदस्य, अभ्यङ्गे नवनीतस्य, पुरोडाशे यथोचितपाकस्य च विधेयतया स- र्वमवशिष्टं स्तावकम् । निवीतविचारस्यैवाऽयं प्रपञ्चः । एवं “यत्पूर्णं तन्मनुष्याणाम्" इति सप्तमं परुषिदितद्याधिकरणम् ॥७॥ इत्यत्राऽपि द्रष्टव्यम् । तच्च चातुर्मास्येषु महापितृयज्ञे(१)"पितृभ्योऽग्निष्वात्तेभ्योऽभिवा- न्या गोर्दुग्धे मन्थम्" इत्यत्र वत्सरहिताया अभिवानीशब्दाभिधेयाया धेन्वा दुग्धे पिष्टं प्रक्षिप्य क्रियमाणे मन्थने श्रूयते-(२) “यत्पूर्णं तन्मनुष्याणाम् , अर्धः पितृणाम् , अर्ध उपमन्थति, अर्थो हि पितृणाम्' इति । तत्र पात्रस्याऽधोभा- गरूपेणाऽर्धेन परिमिते दुग्धे मन्थनस्य कर्तव्यत्वात्सोऽर्धो विधीयते । स च पूर्णादिवा- क्येन स्तूयते ॥ उपर्य| देवानाम् , , अथाऽष्टमं कर्त्रधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- अनृतं न वदेद्वैधः पुंधों वाऽनुवादगीः । सक्रतौ पुंसि शुद्धे वा क्रतौ यद्वा विधिः क्रतौ ॥ १४ ॥ अनृतोक्तेः पुमर्थत्वात्तन्निषधस्तथाविधः। स्मार्तानुवादः पुंस्क्रत्वोः श्रुतिप्रक्रिययोर्वशात् ॥ १५ ॥ नाऽऽख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत् । सत्योक्तिीनयमादन्यः संयोगोऽतः क्रतो विधिः॥१६॥ दर्शपूर्णमासप्रकरणे श्रूयते-(३) “नाऽनृतं वदेत्” इति। तत्र पुरुषधर्मत्वेनाऽयं प्रतिषेधो विधीयते । कुतः ? प्रतियोगिनोऽनृतवदनस्य पुरुषधर्मतया तन्निषेधस्याऽपि पुरुषधर्मत्वेनैव विधातव्यत्वात् । 'वदेत्' इत्याख्यातं तावत्कर्तृवाचकम् । तेनाऽऽख्यातेन कर्तुः प्रतीयमानत्वात् । पुरुषस्याऽऽख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युत्तम् । “प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येन" इति शाब्दिकैरुद्धोषणात् । वदनस्य पुरषधर्मत्वे तन्निषेधस्याऽपि पुरुषधर्मत्वं युक्तम् । अन्यथा भिन्नविषयत्वे बाधकत्वं न स्यात् । तस्मात्पुरुषवाचकाख्यातश्रुत्या प्रकरणं १. २. ते. ब्रा. १.६.८.४. पात्रपूर्णमेव यत्किञ्चिद्वस्तु मनुष्याणां प्रियं भवति । पात्रे अर्धादुपर्यवस्थितं देवानां प्रियम् । अर्धभागावस्थितं पितृणामित्यर्थः ॥ ३. तै. सं. २.५.५.६.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१७५
एतत् पृष्ठम् परिष्कृतम् अस्ति