जञ्जभ्यमानाधिकरणम् - तृतीयोऽध्यायः ।
१७५ बाधित्वा पुरुषार्थोऽयं प्रतिषेधो विधीयते । अस्त्येव स्मार्तः प्रतिषेध इति चेत्-तर्हि तस्यैतच्छ्रुतिवाक्यं मूलमस्तु । तस्मात् पुरुषार्थ इत्येकः पूर्वपक्षः । आख्यातश्रुतेः प्रकरणस्य चाऽविरोधाय क्रतुयुक्तपुरुषधर्मोऽस्तु। न ह्येतद्वाक्यं स्मृतेर्मूलम् , भिन्नविषयत्वात् । स्मृतिश्चोपनयनमारभ्याऽऽमरणं पुरुषस्याऽनृतं प्रतिषे- धति। तन्मध्यपतितत्वात्क्रतावपि स्मार्तो निषेधः प्राप्त एव । तत उभयार्थोऽप्ययं प्रतिषेधो न विधीयते, किं त्वनूद्यत इति द्वितीयः पूर्वपक्षः । आख्यातेन भावानाऽभिधीयते । कर्ता तु तदविनाभूतोऽर्थात्प्रतीयते । अतः श्रुत्य- भावात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते । न च तत्राऽपि विधीयते, किन्तु सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यत इति तृतीयः पूर्वपक्षः। 'सत्यमेव वदेत् , न त्वनृतम्' इति योऽयं स्मार्तनियमरूपः पुरुषार्थः संयोगः,अतोऽप्राप्तत्वाद्विधीयते । एतद्वयतिक्रमे क्रतोरेव तस्मादयमन्यः क्रत्वर्थः संयोगः । वैगुण्यम्; न तु पुरुषस्य प्रत्यवायः । अतोऽत्र क्रतुगामि प्रायश्चित्तम् । पुरुषार्थनियमा. तिक्रमे तु पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् । तत्र स्मार्त प्रायश्चित्तं इति विशेषः॥ इत्यष्टमं कर्त्रधिकरणम् ॥ ८ ॥ अथ नवमं जञ्जभ्यमानाधिकरणम् ॥ ॥ नवमाधिकरणमारचयति- " जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरूत । वाक्यादाद्यः प्रक्रियया द्वितीयोऽस्त्वविरुद्धया ॥ १७ ॥ दर्शपूर्णमासप्रकरणे श्रूयते-(१) “प्राणो वै दक्षः, अपानः क्रतुः, तस्मा- जञ्जभ्यमानो ब्रूयात् मयि दक्षक्रतू इति, प्राणापानावेवाऽऽत्मन् धत्ते' इति । गात्रवि- नामेन विदारितमुखः पुरुषो जञ्जभ्यमानः । तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते । वाक्यं च प्रकरणाद्वलीयः । तस्मात् केवलं पुंधर्म इति चेत्- मैवम् ; क्रतावपि जजभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभा- भ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात् ॥ इति नवमं जञ्जभ्यमानाधिकरणम् ॥ ९ ॥ १. प्राण इत्यादि. तै.सं.२. ५. २. ४. जभ ‘गात्रविनामे' इति धातोर्निष्पन्नो ज- अभ्यमानशब्दः । जृम्भां कुर्वन्नित्यर्थः। दर्शपूर्णमासकर्ममध्ये जृम्भां कुर्वन् यजमानो 'मयि दक्षक्रतू' इति मन्त्रं पठेत् । तेन प्राणमपानं चाऽऽत्मानि स्थापयतीति विषय- वाक्यार्थः।