पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अश्वप्रतिग्रहेष्टयधिकरणम् ] तृतीयोऽध्यायः। १७९ अथ चतुर्दशमश्वप्रतिग्रहेष्टयधिकरणम् ॥ १४ ॥ चतुर्दशाधिकरणमारचयति- अश्वप्रतिग्रहष्टिस्तु दातुरित्यभिधास्यते । दानद्वये लौकिके वा वैदिके वा भवेदियम् ॥ २६ ॥ अविशेषाद्वयोर्यद्वा 'न देयः केसरी'त्यतः । निषेधाल्लौकिकात्तत्र प्रायश्चित्तिरियं भवेत् ॥ २७ ॥ न जलोदरहेतुत्वं प्रमितं लौकिकं क्वचित् । वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तयेऽत्र सा ॥ २८ ॥ इदमाम्नायते-“(१)यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्नि- र्वपेत्' इति । तत्र 'प्रतिग्रहशब्दो दानपरः' इत्यनन्तरमेव वक्ष्यते । तत्र विशेषाश्र- वणाल्लौकिकवैदिकदानयोरुभयोरप्यसाविष्टिः इत्येकः पक्षः । (२) "न केसरिणो ददाति” इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लौकिकमश्वदानं निषिद्धम् । तदनुष्टाने प्रायश्चित्तरूपेयमिष्टिरिति द्वितीयः पक्षः । "वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति" इत्यश्वदाने जलोदरव्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते। न च लौकिकस्याऽश्वदानस्य तद्धेतुत्वं प्रमितम् । वै- दिकस्य तु जन्मान्तरविषयं दोषश्रवणम् । अतो वैदिकदाने सेष्टिः प्रायश्चित्तम् । अस्ति हि वैदिकमश्वदानम् (३) “वडवा दक्षिणा' इत्यादिश्रवणात् ॥ इति चतुर्दशमश्वप्रतिग्रहेष्टयधिकरणम् ॥ १४ ॥ गत्वं धात्वर्थस्य च होमस्योद्देश्यत्वम् । आहवनीये होमं करोतीति यत् तेन सः आहव. नीय रूपोऽग्निः अस्मै यजमानाय प्रीतस्सन्नभीष्टप्रदो भवतीत्यर्थः । १. तै. सं. २. ३. १२. १. “प्रजापतिर्वरुणायाऽश्वमनयत् स स्वां देवतामाळुत् स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत् तन्निरवपत् ततो वै स वरुणपाशाद- मुच्यत वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान् निर्वपेत् वरुणमेव स्वेन भागधेयेनोपधावति स एवैनं वरुण- पाशान् मुञ्चति" इति समग्रो भागः। अस्याऽर्थः-कदाचित् प्रजापतिः वरुणायाऽश्व- मदात् , ततः स प्रजापतिः स्वां वरुणरूपां देवतां जलोदररूपेण प्राप्तवान् । दानानन्तरमेव तस्य जलोदराख्यो रोगस्समजनि इत्यर्थः । तेन परिदीर्णस्सः एतं चतुष्कपालपुरोडाशद्र- व्यकं वरुणदेवताकं यागं दृष्ट्वा तेन वरुणमयजत् , ततस्स रोगमुक्तोऽभवत् । अतश्चेदानी मपि योऽश्वं ददाति स जलोदररोगग्रस्तो भवेत् । तत्परिहाराय यावत्संख्याकानश्वान् दद्यात् तावत्संख्याका इष्टीः कुर्यात् । तेन तृप्तो वरुण एनं तस्मान्मोचयेत् इति । २. केसराः कण्ठलम्बीनि रोमाणि तद्वन्तः केसरिणः अश्वगर्दभसिंहादयः । ३.तं.सं.१.८.२१