१८८ सविस्तरायां जैमिनीयन्यायमालायां [ अ. ३. पा. ५. आध. ९ सहितास्तेन ते वाऽऽद्य उद्गातृश्रुतितोऽखिलाः । बहुत्वाद्गानयोगेन तृतीयो रूढिबाधिते ॥ १२ ॥ योगे समाख्यया दण्डिन्यायादन्त्योऽत्र भाष्यगः। सदसि स्थित्यभावेन तृतीयो वार्तिकोदितः ॥ १३ ॥ पूर्वोदाहृतवाक्ये “प्रोद्गातृणाम्” इत्यत्रकस्यैव भक्षः । उद्गीथशब्दाभिधेयायाः सामभक्तेरुद्गातयुगातृप्रातिपदिकस्य रूढत्वात् इत्येकः पूर्वपक्षः । 'उद्गातृणाम्' इत्यस्य बहुत्वस्यैकस्मिन्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वेऽपि भक्षयेयुः इति द्वितीयः । उद्गीथप्रस्तावप्रतिहारान्सामभागानुगातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति । 'उदुत्कर्षेण गायन्ति' इति योगेनोद्गातारस्त्रयो भक्षयेयुरिति तृतीयः पक्षः । "रूढिर्योगमपहरति' इति न्यायादेक एवोद्गाता । तेन च बहुवचनोपपत्तये प्रत्या- सन्ना उपलक्ष्यन्ते । प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सु्ब्रह्मण्यस्याप्यडस्ति सामवेदा- ध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात् । तस्मात् 'सुव्र ह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयु' रित्ययमन्त्यः पक्षो भाष्यकारस्याभिमतः। वार्तिककारस्तु–सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विर- हिता अवशिष्टाः सामगा भक्षयन्तीति तृतीयं पक्षमङ्गीचकार ॥ इत्यष्टमं ससुब्रह्मण्योद्गातृभक्षणाधिकरणम् ॥ ८ ॥ अथ नवमं ग्रावस्तुतस्सोमभक्षणाधिकरणम् ॥६॥ नवमाधिकरणमारचयति- किं स्याच्चमसिनामेव हारियोजनभक्षणम् । सर्वेषां वाऽग्रिमस्तेषां पूर्ववाक्येण संनिधेः॥ १४ ॥ लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः । ग्रावस्तुतोऽप्यस्ति भक्षश्चमसित्वमकारणम् ॥ १५ ॥ (१)"हरिरसि हारियोजनः” इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः । होतृब्रह्मादयश्चमसिनः। यस्तु चतुर्णा मध्ये चतुर्थो ग्रावस्तुन्नामकोऽस्ति, नाऽसौ च- १. तै. सं. १. ४. २९. हे सोम ! त्वं हरितवर्णोऽसि हरितमश्वं रथे युनक्तीति हरियोजनः इन्द्रः, तत्सम्बन्धी हारियोजनः । इन्द्रदेवताक इत्यर्थः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१८९
एतत् पृष्ठम् परिष्कृतम् अस्ति