१९० सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा.५ अधि.१२. हविर्धानेऽभिषुत्याऽथ हुत्वा सदसि भक्षयेत् । इति श्रुतत्वतस्तौ च भक्षहेतू यथेतरे ॥ १६ ॥ "प्रेतु होतुश्चमसः" इत्यत्र समाख्या भक्षहेतुः, हारियोजने वाक्यम् , “वषट्- कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारः, इत्येवमुक्तत्वात्रय एव भक्षहेतव इति चेत्- मैवम्; (१)"हविर्धाने ग्रावभिरभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि (भक्षान्) भक्षयन्ति इति श्रूयते । उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डपेऽभिषवः । उत्तरवेद्यां होमः । सदसि भक्षणम् । तत्र अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनाऽनूद्य भक्षणं विधीयते । तस्मात् समाख्यादिवदेतयोरपि भक्षणहेतु. त्वमस्ति ॥ इत्येकादशं होमाभिषवयोर्भक्षनिमित्तत्वाधिकरणम् ॥ ११ ॥ अथ द्वादशं भक्षणनिमित्तसमुच्चयाधिकरणम् ॥ १२ ।। द्वादशाधिकरणमारचयति- हेतुसङ्घे विकल्पः किं बाधो वाऽथ समुच्चयः । साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया ॥२०॥ नैव वाचनिकं बाध्यं भक्षणेऽत्र विभागशः। सिद्धे विकल्पो नो युक्तः स्वीकार्योऽतः समुच्चयः ॥ २१ ॥ "प्रेतु होतुश्चमसः, प्र ब्रह्मणः” इत्यत्र चमसिषु समाख्या भक्षणे हेतुः । “वष- कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारो होतुर्भक्षहेतुः । “हविर्धाने ग्रावभिरभिषुत्याऽऽ- हवनीये हुत्वा सदसि भक्षयन्ति” इत्यत्राऽभिषवसहितो होमोऽध्वर्योर्भक्षहेतुः । तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः । चमसाभिषवसंघोऽध्वर्यौ प्राप्तः। तत्र हेतुद्ध. यस्य समानबलत्वाद्विकल्पे सत्यन्यतरनिमित्तकृतमेव भक्षणम् इत्याद्यः पक्षः । वषट्कारादिहेतोश्चमसेतरग्रहेषु सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्वाधे सति चमसिषु पाक्षिकमपि वषटकारादिहेतुकं भक्षणं नाऽस्ति इति द्वितीयः पक्षः । "वषट्कर्तुः" इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्त । निरवका- शतया साऽपि प्रबला इति चेत्-तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयोऽ. भ्युपेयः । न च व्रीहियववद्विकल्पः, तत्र पुरोडाशनिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात् । इह तु नियमादृष्टार्थं भक्षणम् । तच्चाऽदृष्टं यथावचनं द्विविधम् । तस्मात्समुच्चयः ॥ इति द्वादशं भक्षणनिमित्तसमुच्चयाधिकरणम् ॥ १२ ॥ १. हविर्धान इत्यादेरर्थः पृष्टे १४२ द्रष्टव्यः । -
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९१
एतत् पृष्ठम् परिष्कृतम् अस्ति