१९४ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ५. अधि.२०, अथैकोनविंशं फलचमसाधिकरणम् ॥ १६ ॥ एकोनविंशाधिकरणमारचयति- न्यग्रोधपिष्टं सोमस्य स्थाने क्षत्रियवैश्ययोः। भक्षमात्रे विकुर्यात्तत् सोमयागेऽपि वा तथा ॥ ३१ ॥ विभक्षयिषया वाक्यमुपक्रम्योपसंहृतम् । भक्षं यच्छेदिति ततो विकारो भक्षमात्रगः॥ ३२ ॥ फलाख्यचमसेनाऽसौ यजेतेति श्रुतत्वतः । इज्यायां च विकारोऽस्ति यागार्थी भक्षसंस्कृतिः ॥ ३३ ॥ ज्योतिष्टोमे श्रूयते-(१)“यदि राजन्यं वैश्यं वा याजयेत् , स यदि सोमं बि- भक्षयिषेत् , न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेत्, न सोमम्” इति । स्तिभिन्यो मुकुलानि । तत्र उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्ष- मात्रे सोमः पिष्टेन विक्रियत इति चेत्- मैवम् । “यदाऽन्यांश्चमसाजुह्वति, अथैतस्य दर्भतरुणकेनोपहत्य जुहोति" इति श्रुतम् । तत्र फलचमसरूपेण यथोक्तपिष्टेन यागमङ्गीकृत्य तरुणकगुणो विधीयते । किञ्च इष्टद्रव्यसंस्कारो हि भक्षः । स च यागमन्तरेणाऽनुपपन्नः । तस्मात् यागेऽपि विकारः॥ इत्येकोनविंशं फलचमसाधिकरणम् ॥ १९ ॥ अथ विंशमनुप्रसर्ष्यधिकरणम् ॥ २० ॥ विंशाधिकरणमारचयति- राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः । भक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत ॥ ३४ ॥ १. यदि क्षत्रियो वैश्यो वा सोमयागं कर्तुं अभिलषेत् तदा तौ सोमस्थाने न्यग्रोध- मुकुलान्यानीय तत्रैव सोमसंस्कारान् कृत्वा तानि पिष्ट्वा-दध्ना सम्मेल्य तमेवाऽग्नौ हुत्वा तमेव च भक्षयतः, न सोमभक्षणेऽधिकुरुतस्तावित्यर्थः ।
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९५
एतत् पृष्ठम् परिष्कृतम् अस्ति