पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

सामिधेन्यधिकरणम् ] तृतीयोऽध्यायः। १९७ संख्याकाङ्क्षाया अभावात् । न च प्राञ्चदश्यसाप्तदश्यवाक्ययोः समानबलत्वादवरोधाभाव इति शङ्कनीयम् ; पाञ्चदश्ये प्रकरणानुग्रहस्याऽधिकत्वात् । तस्मात्(१)मित्रविन्दाध्वरक- ल्पादिविकृतौ साप्तदश्यमवतिष्ठते । न चात्र पूर्वन्यायोऽस्ति, साप्तदश्यस्य चोदकप्राप्त्य. भावेन पुनर्विधाने दोषाभावात् ॥ इति द्वितीयं सामिधेन्यधिकरणम्॥ २ ॥ अथ तृतीयं नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणम् ॥३॥ तृतीयाधिकरणमार चयति- साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत । पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः ॥ ५ ॥ गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत् । भाष्यकारस्तदप्यस्तु न्यायस्याऽत्र समत्वतः ॥६॥ (२) “सप्तदशाऽनुब्रूयाद्वैश्यस्य' इति विहित वैश्यनिमित्तकं साप्तदश्यं पूर्वन्यायेन विकृतिगतम् इति चेत्- मैवम् ; नैमित्तिकेनाऽनेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्य वैश्यव्यति- रिक्तविषयतया संकोचनीयत्वात् । नित्यं सामान्यरूपतया सावकाशत्वेन च दुर्बलम् । नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम् । तस्मात् वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते । अत्र भाष्यकारोऽन्यदुदाजहार-"चमसेनाऽपः प्रणयेद्गोदोहनेन पशुकामस्य" इति । तत्र प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृतौ इति पूर्वपक्षः । कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीय- त्वात्प्रकृतावेव गोदोहनमिति राद्धान्तः । इति तृतीयं नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणम् ॥ ३ ॥ - १. मित्रप्राप्तिफलकेष्टिः मित्रविन्देष्टिः । ईषदसमाप्तोऽध्वरः अध्वरकल्पा, तन्नाम्नी काचनेष्टिः । इष्टिरियं सोमयागवत् सवनत्रयेऽपि क्रियते । सोमद्रव्याभावात् स्तोत्रश- खाद्यभावाच न सोमयागः । अत इयमध्वरकल्पा। अस्या विधिः तै.सं.२.२.९. द्रष्टव्यः। २. वैश्यकर्तृकेटौ सप्तदश सामिधेनीः पठेत् इत्यर्थः ।