प्रवमानेष्टयनतिदेशाधिकरणम् ] तृतीयोऽध्यायः । १९९ आनारभ्याऽधीतं पर्णमयीत्वं यथा जुहूप्रणाड्या प्रकृतौ निविष्टम् , तथैवाऽग्निप्रणाा ड्या तत्संस्काररूपमाधानं प्रकृतौ निविशते इति चेत्-- मैवम् ; वैषम्यात् । द्विविधो हि जुह्वा आकारः लौकिकः शास्त्रीयश्च । अरत्नि. मात्रदैर्घ्यहंसमुखत्वत्वग्वबलत्वादिरूपो दृश्यमानो लौकिकः । अपूर्वीयत्वाकारस्तु शास्त्री- यः । तयोरपूर्वीयत्वं ऋतुप्रवेशमन्तरेण नाऽस्ति । तत्र यदि लौकिकाकारमात्रे पर्यव- स्यति, तदा पर्णमयीत्वं विफलं भवेत् । काष्टान्तरेणाऽपि तदाकारस्य सुसम्पादत्वात् । अतोऽपूर्वीयत्वाय पर्णः क्रतौ प्रविष्टः । आहवनीयादीनां त्वेक एव शास्त्रीयाकारः । स च विधिबलादाधानेनैव जन्यते, नाऽन्यथा । तस्मादाधानस्य ऋतुप्रवेशं विनैव शास्त्री. याहवनीयाद्याकारसम्पादनसमर्थत्वादग्निहोत्रेण तत्संयुज्यते । तथा सति पर्णवैषम्यात्प्र. कृतावप्रविश्याऽग्नीनुत्पाद्य क्रतुवत्स्वातन्त्र्येणाऽवतिष्ठते । ततो लौकिकोपायसम्पादितसु. वर्णव्रीह्यादिवदाधानसम्पादितानां स्वतन्त्राणामेवाऽऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु ॥ इति पञ्चममाधानस्य प्रकृतिविकृत्यर्थताधिकरणम् ॥ ५॥ . अथ षष्ठं पवमानेष्टयनतिदेशाधिकरणम् ॥ ६॥ षष्टाधिकरणमारचयति- संस्कृते पवमानेष्टया वह्नौ सेष्टिर्न वेष्टयः । वह्नौ तत्संस्कृते कार्याश्चोदकस्याऽनुरोधतः ॥ ११ ॥ चोदकः पवमानेष्टौ न तां प्रापयितुं प्रभुः । अनङ्गत्वेष्टयसिद्धिभ्यामिष्टयस्तदसंस्कृते ॥ १२ ॥ पवमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते । संस्कृतेष्वग्निहोत्रदर्शपूर्णमा- सादिक्रतवः प्रवर्तन्ते । तथासति विमताः पवमानेष्टयस्ताभिरिष्टिभिः संस्कृते वह्नौ कर्तव्याः, इष्टित्वात् , इतरेष्टिवत् । चोदकोऽप्येवं सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते वह्नौ प्रकृत्यनुष्ठानादिति प्राप्ते- ब्रूमः-यद्यपि पवमानेष्टिर्विकृतिः, तथाऽपि चोदको न तस्यां पवमानेष्टौ पवमा नेष्टिमतिदेष्टुं प्रभवति । प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वाभावात् । किञ्च एतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थं पवमानेष्टयन्तराङ्गीकारे तत्राऽपि तथा इत्यनवस्थायामि- ष्टिरेव न सिध्येत् । तस्मात् ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः ॥ इति षष्ठं पवमानेष्ट्यनतिदेशाधिकरणम् ॥ ६ ॥ ,
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२००
एतत् पृष्ठम् परिष्कृतम् अस्ति