- २०२ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ६.अधि.१० ज्योतिष्टोमे प्रातस्सवने (१)सन्त्यैन्द्रवायवादयो ग्रहाः, माध्यन्दिने सवने म- रुत्वतीयादयः, तृतीयसवन आदित्यादयः । तत्र सादनसम्मार्गादयो धर्माः प्रातस्सव- नीयग्रहसन्निधावाम्नायन्ते-(२)"उपोप्तेऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवः” इति । (३)"दशापवित्रेण ग्रहं संमार्ष्टि' इति च । ध्रुवव्यतिरिक्तानां ग्रहाणामधस्तान्मृत्तिकोप- वेशनं कृत्वा तत्र सादनम् , ध्रुवस्य तु न तथा । पूर्वाधिकरणे शाखाहरणादयः प्रधान- योर्दधिपयसोर्धर्माः समाम्नाताः, तच्च दधि पूर्वेद्युः सायंदोहमन्तरेण न सिध्यतीति त- सिद्ध्यर्थं केवलं सायं दुह्यते, न सायंदोहस्यासाधारणत्वेन धर्मैः सहैकस्मिन्देशे पा. ठोऽस्तीति स्थानं न निश्चितम् । इह तु तन्निश्चितमिति प्रातस्सवन एव ते धर्मा इति चेत्- मैवम् ; सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चाऽवग. म्यते । तस्मिन्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सवनेषु सादनादयो- ऽवतिष्ठन्ते ॥ , इति नवमं ग्रहधर्माणां सवनत्रयार्थताधिकरणम् ॥ ९ ॥ - - , अथ दशमं रशनाधर्मसाधारण्याधिकरणम् ॥ १० ॥ दशमाधिकरणमारचयति- एकत्रैवोत सर्वत्र रशनावेष्टनादयः । अग्नीषोमीय एवैते क्रमाल्लिङ्गादितोऽन्तिमः ॥ १९ ॥ अग्नीषोमीयपशुसन्निधौ रशनया यूपस्य वेष्टनम् , रशनायास्त्रिवृत्त्वं दर्भयत्वं च, इत्यादयो धर्मा आम्नाताः-(४)"परिव्ययति, ऊग्वै रशना” इति, "त्रिवृद्भवति" इति, "दर्भमयी भवति" इति च । तत्र येयं रशना, ये च वेष्टनादयः, ते सर्वे सन्नि- धेरवान्तरप्रकरणाद्वाऽग्नीषोमीय एव स्युः इति चेत्- मैवम् । सवनीयपशावपि तत्सद्भावो लिङ्गादवगम्यते "त्रिवृता यूपं परिवीयाss. ग्नेयं सवनीयं पशुमुपाकरोति" इति त्रिवृत्त्वपरिव्याणयोः सिद्धवदनुवादो लिङ्गम् । १. ऐन्द्रवायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थी, आग्रयणः, त्रयोऽति- ग्राह्या:-ऐन्द्रः सौर्यो वैश्वदेवश्चेति, ध्रुवः ऋतुग्रहाः द्वादश इति प्रातस्सवने ग्रहाः । एवं माध्यन्दिनतृतीयसवनयोर्ग्रहाः श्रोतसूत्रतोऽवगन्तव्याः । २. उपोप्ते 'उपरवपांसूपवापकृतस्थण्डिले खराख्ये'इति मयूखमालिकायां सोमनाथः । ३. अस्याऽर्थः पृष्ठे १२५ टिप्पणीतोऽवगन्तव्यः । तै. सं. ६. ३. ४. ५. परिव्ययति-संवेष्टयति । , , ४.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०३
एतत् पृष्ठम् परिष्कृतम् अस्ति