- २०४ सविस्तरायां जैमिनीयन्यायमालायां [ अ.३.पा.६.अधि.१२ धर्माः श्रुताः- "अखण्डामकृष्णां कुर्यात्" इति । पूर्वत्र अश्वदाभ्ययोरुत्पत्तिवाक्य- स्यानारभ्याधोतत्वेऽपि विनियोजकवाक्यं प्रकरणाधीतम् । चित्रिण्यादिनामकानां त्विष्ट- काविशेषाणां विनियोजफं वाक्यमप्यनारभ्याधीतम् । तच्च चित्यन्तरे ताश्चित्रिणीर्वि- नियुङ्क्ते । अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः । तस्मात् ते चित्रिण्यादिषु नोचिता इति प्राप्ते- ब्रूमः-यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्याऽपि प्रकरणपाठो नास्ति, तथा- ऽपि “य एवं विद्वानग्नि चिनुते” इति प्रकृतं यदेतदग्न्यपूर्व तत्सम्बन्धित्वेनैव चित्रिण्यादयोऽप्यप्रकरणपठितेनाऽपि वाक्येन विनियुज्यन्ते । अखण्डत्वादयश्चाग्निसा- धनभूतेष्टकाधर्माः, न तु प्रथमचितिधर्माः। तस्मात् अग्निसाधनभूतासु चित्रिण्यादी. ष्टकास्वपि ते सन्ति ॥ इति द्वादशं चित्रिण्यधिकरणम् ॥ १२ ॥ - , " अथ त्रयोदशमभिषवादीनां सोमार्थत्वाधिकरणम् ॥ १२ ॥ त्रयोदशाधिकरणमारचयति- विधयोऽभिषवाद्याः स्युः फलाख्ये चमसे न वा । नैमित्तिकस्य नित्येन तुल्यत्वादस्ति तद्विधिः ॥ २३ ॥ नित्ये कृतार्थाः संस्काराः पश्चाद्भाविनिमित्तजे । न विधेयाः किन्तु तत्र प्राप्यन्तामतिदेशतः ॥ २४ ॥ न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः । स च नैमित्तिकः, राजन्यवैश्यौ निमित्तीकृत्य विहितत्वात् । सोमस्तु नित्यः, उपाधिक्रममप्यनुपजीव्यैव "सोमेन यजेत" इति विहितत्वात् । तस्य च नित्यस्य सोमस्य यथा यागसाधनत्वम् , तथा फलचमसस्याऽपि तदस्ति । तस्मात् “सोममभिषुणेति” “सोमं क्रीणाति" इत्यादयो यागद्रव्यसंस्कारविधयः सोम इव फलचमसेऽपि प्रवर्तन्ते इति प्राप्ते- ब्रूमः-नित्या अभिषवादिसंस्कारा नित्यं सोमं संस्कार्यं लब्ध्वा चरितार्थाः सन्तो नाऽन्यं संस्कार्यमपेक्षन्ते फलचमसस्तु सोमविकारत्वात्पश्चाद्भावी। ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते । न चैतावता संस्काराभावः, चोदकेन तत्सिद्धेः । तस्मात् सोममात्रसम्बन्धिनो विधयः ॥ इति त्रयोदशमभिषवादीनां सोमार्थत्वाधिकरणम् ॥ १३ ॥ -
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०५
एतत् पृष्ठम् परिष्कृतम् अस्ति