वेदिबर्हिरविकरणम् ] तृतीयोऽध्यायः । २०७(१)अग्निष्टोमस्यैवाऽसाधारणम् । ननु “ज्योतिष्टोमेन सर्वसंस्थासाधारणं प्रकरणम् , किंतु यजेत” इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम् , न त्वग्निष्टोमसंस्थाया इति चेत्- बाढम् ; असौ ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति, (२) उक्थ्यादीना. मप्यन्तर्भाविताग्निष्टोमकत्वात् । उक्थ्यादींस्तु व्यभिचरति' विनाऽपि तैरग्निष्टोमद. शायां ज्योतिष्टोमत्वसम्भवात् । अतोऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्त- त्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति । उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते ॥ इति षोडशं संस्थाधिकरणम् ॥ १६ ॥ इति श्रीमाधवाचार्यविरचिते जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठः पादः ॥ ६ ॥ अथ तृतीयाध्यायस्य सप्तमः पादः ॥ तत्र प्रथमं वेदिवहिरधिकरणम् ॥ १ ॥ सप्तमपादस्य प्रथमाधिकरणमारचयति- मुख्याङ्गतैव वेद्यादेः प्रयाजाद्यङ्गताऽपि वा । तद्वाक्यं प्रक्रियायुक्तं मुख्याङ्गत्वस्य बोधकम् ॥ १॥ मुख्याङ्गस्याऽपि वेद्यादेः प्रयाजादिषु चाऽङ्गता । मुख्यार्थत्वात्प्रयाजादेः स्वापूर्वव्यवधानतः ॥ २ ॥ दर्शपूर्णमासयोः श्रूयते—(३)"वेद्यां हवींष्यासादयति” “बर्हिषि हवींष्यासा- दयति' इति । तथा तद्धर्माः श्रूयन्ते-"वेदि खनति” “बर्हिर्लुनाति" इत्यादयः । मुख्यहवींष्याग्नेयपुरोडाशादीनि अमुख्यहवींषि तु प्रयाजाद्यर्थानि । तत्र स्वस्वधर्मस- १. एवं च अग्निष्टोमसंस्थैव प्रकृतिभूता। उक्थ्यादयस्तु विकृतिभूताः धर्मा- कांक्षायां अग्निष्टोमतो धर्मान् गृह्णन्ति इति सिद्धम् । २. अत्राऽयं प्रकार:-अग्निटोमसंस्थाऽग्निष्टोमसाम्नैव समाप्यते । उक्थ्यादि । उक्थ्यसंस्था तु अग्निष्टोमस्तोत्रं पठित्वैवाऽनन्तरमुक्थ्यस्तोत्रं पठित्व तत्र समाप्यते सा । एवं षोडश्यादौ बोध्यम् । ३. अत्र प्रथमवाक्येन वेद्यां हविरासादनं विधीयते । द्वितीयेन च बर्हिष उपरि । तत्रोभयोस्समुच्चयः । एवं च वेदि कुशैरास्तीर्य तदुपरि प्रधानहवींषि पुरोडाशा- दीनि अङ्गहवींषि आज्यादीनि चाऽऽसादयेदिति वाक्यद्वयस्य निष्कृष्टोऽर्थः । न तत
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०८
एतत् पृष्ठम् परिष्कृतम् अस्ति