२०८ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा. ५. अधि.२. , हितानि वेद्यादीनि प्रकरणबलान्मुख्यहविषामेवाऽङ्गानि "वेद्यां हवींष्यासादयति" इति वाक्यात्सर्वहविरङ्गता इति चेत्-न; प्रकरणेन वाक्यस्य संकोचनीयत्वात् । यदि वाक्यं प्रकरणनैरपेक्ष्येण स्वतन्त्रं स्यात् , तदा सादनमात्रपर्यवसानेन यागाभावे वैयर्थ्यं स्यात् । सौमिकहविषामप्येतद्वेद्यासादनं प्रसज्येत । तस्मात् मुख्यहविरङ्गं वेद्यादिकम् इति प्राप्ते- ब्रूमः-अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविष्षु वेद्यादेरङ्ग- त्वम् । प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम् । एवं सति वाक्यस्याऽत्यन्तसंकोचो न भविष्यति ॥ इति प्रथमं वेदिवहिरधिकरणम् ॥ १ ॥ - अथ द्वितीयं यजमानधर्माणां प्रधानार्थताधिकरणम् ॥ २॥ द्वितीयाधिकरणमारचयति- वपनाद्युपकारः किं द्वयोर्मुख्याङ्गयोरुत । मुख्य एव, द्वयोरस्तु कृत्स्नकर्तृगतत्वतः ॥ ३ ॥ युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः । विनाऽपि संस्कृतिं दृष्टं कर्तृत्वं तत्र नाऽस्ति सः ॥ ४ ॥ ज्योतिष्टोमे(१) केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः । ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः । अग्नीषोमीयपश्वादिकमङ्गम् । तत्र द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति । कुतः ? कर्तृधर्मत्वात् । यजमानो हि कर्तृतया वपनादिनिः सं. स्क्रियते । कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते, तथाऽङ्गं प्रत्यप्यस्ति । तस्मात् उभयोरुपकार इति चेत्- मैवम् ; द्वौ हि यजमानस्याऽऽकारौ क्रियाकर्तृत्वम् , फलभोक्तृत्वं चेति।तयोर- दृष्टः फलभोगः । क्रियानिष्पत्तिश्च दृष्टा । तथासति वपनादिकृतोपकारस्याऽप्यदृष्टत्वा- द्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति । वपनादिसंस्काररहिते- रप्य॒त्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते । ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नाऽस्ति । तस्मात् अदृष्टफलभोजिनोऽस्य यजमानस्य योऽ. यमदृष्टरूपः शास्त्रीयसंस्कारः सोऽयं मुख्ये कर्मणि युक्तो, नाऽङ्गेषु । नाऽत्र पूर्ववद्वाक्य- १. "केशश्मश्रु वपते । नखानि निकृन्तते" (तै. सं.६.१.१२ ) 'पयो ब्राह्मण. स्य व्रतम् , यवागू राजन्यस्य ते. सं (६. २. ५. २.) इत्यादयः । ,
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२०९
एतत् पृष्ठम् परिष्कृतम् अस्ति