यूपावटदेशलक्षणाधिकरणम् ] तृतीयोऽध्यायः । २११ अथ पञ्चमं दीक्षादक्षिणयोः प्रधानार्थत्वाधिकरणम् ॥ ५ ॥ पञ्चमाधिकरणमारचयति- दण्डदीक्षा दक्षिणा तु शतं द्वादशभिर्युतम् । द्वयार्थमुत मुख्यार्थं सोमस्येत्युक्तिसम्भवात् ॥ ३ ॥ मुख्याङ्गद्वयगं, मैवं पारम्पर्यविडम्बना । वचनस्य न युक्ताऽतः प्रधानार्थमिदं स्थितम् ॥ १०॥ ज्योतिष्टोमे दीक्षादक्षिणं श्रूयते-(१) “दण्डेन दीक्षयति' इति । (२)"तस्य द्वादशशतं दक्षिणा' इति च । तत्र दीक्षा मुख्यानयोरुपकरोति, तथा दक्षिणाऽपि । न च वाच्यं 'दीक्षाः सोमस्य, दक्षिणाः सोमस्य इति वाक्ये षष्ठया मुख्यसम्बन्ध एवाऽव. गम्यते, न त्वङ्गसम्बन्ध इति । दीक्षादक्षिणे सोमेनैव साक्षात्सम्बध्नीताम् , स सोमः पुनरङ्गैः सम्बद्ध इति परम्परया दीक्षादक्षिणयोरङ्गैरपि सम्बन्धोऽस्ति । तस्मात् उभ- यार्थ दीक्षादिकम् इति प्राप्ते- ब्रूमः-अव्यवहितसन्बन्ध एव षष्टया अभिधेयोऽर्थः । तदसम्भवे तु परम्प- रासम्बन्धः कथञ्चिद्गृह्यते । इह तु तत्सम्भवात्पारम्पर्य न युक्तम् । तस्मात् प्रधानार्थ दीक्षादिकम् ॥ इति पञ्चमं दीक्षादक्षिणयोः प्रधानार्थत्वाधिकरणम् ॥ ५ ॥ अथ षष्ठं यूपावटदेशलक्षणाधिकरणम् ॥ ६॥ षष्टाधिकरणमारचयति- अन्तर्वेदि मिनोत्यर्धं यूपाङ्गमुत लक्षयेत् । देशं यूपाङ्गभावेन वेदिभागोऽत्र चोद्यते ॥ ११ ॥ बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ । मीयमानस्य यूपस्य तावान्देशोऽत्र लक्ष्यते ॥ १२ ॥ १. अत्र अध्वर्युः, यजमानं, इति पदद्वयमध्याहार्यम् । अध्वर्युः यजमानहस्ते औदुम्बरं दण्डं दद्यात् दीक्षाभिव्यञ्जनार्थमित्यर्थः । २. तां. ब्रा, १६. १. ११. अत्र दक्षिणाशब्देन कर्मकरेभ्योऽध्वर्वादिभ्यो देया भृतिरुच्यते । तस्य ज्योतिष्टोमस्य 'दक्षिणा' तत्साधनं द्वादशोत्तरं शतं (गावः) इत्यर्थः। ततश्च ज्योतिष्टोमे द्वादशोत्तरशतं गावो दक्षिणात्वेन देया इति भावः । 3
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१२
एतत् पृष्ठम् परिष्कृतम् अस्ति