पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वेदापौरुषेयत्वाधिकरणम् ] प्रथमोऽध्यायः । २१ बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्दे 'त एवेमे गकारादयो वर्णाः, इत्यवाधितप्रत्यभिज्ञा जायते । तद्बलान्नित्या वर्णाः । न च वर्णानां जन्माभावे बहु- कृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीयम् , तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात् । एवं सति पुरुषभेदादुच्चारणभेदाच्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान् ध्वनिवि- शेषानुत्पाद्य चरितार्था भविष्यन्ति तस्मान्नित्ये शब्दे कारणदोषाभावान्ना- स्त्यप्रामाण्यमिति सिद्धान्तः ॥ इति षष्ठं शब्दनित्यत्वाधिकरणम् ॥ ६ ॥ अथ सप्तमं वाक्याधिकरणम् ॥ ७ ॥ सप्तमाधिकरणमारचयति- वेदवाक्यममानं स्यान्मानं वा नाऽस्य मानता । पृथक्सङ्गत्यपेक्षायामनपेक्षत्ववर्जनात् ॥ ५२ ॥ वेदेऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् । ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः ॥ ५३ ॥ यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्य पदस्याऽपि वर्णरूपतया नित्यत्वाद्वर्णपद- द्वारा वेदस्य कारणसापेक्षत्वं नाऽस्ति, तथाऽपि 'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादिवा- क्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम् । ततो नैरपेक्ष्याभावात्प्रामाण्यं नाऽस्तीति प्राप्ते- ब्रूमः—लोके 'गामानयेत्यादिवृद्धप्रयोगे पदपदार्थयोरेव सङ्गतिर्गृह्यते । वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात्स्वार्थं प्रतिपादयतीत्यविवादम् । तथा वेदवाक्यस्याऽपि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम् ॥ इति सप्तमं वाक्याधिकरणम् ॥ ७ ॥ अथाऽष्टमं वेदापौरुषेयत्वाधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- पौरुषेयं न वा वेदवाक्यं, स्यात्पौरुषेयता । काठकादिसमाख्यानाद्वाक्यत्वाच्चाऽन्यवाक्यवत् ॥ ५४ ।। समाख्याध्याऽपकत्वेन वाक्यत्वं तु पराहतम् ।। तत्कर्त्रनुपलम्भेन स्यात्ततोऽपौरुषेयता ।। ५५ ।। इति श्रीमाधवाचार्यविरचितायां जैमिनीयन्यायमालायां प्रथमाध्यायस्य प्रथमः पादः॥ 2